This page has been fully proofread once and needs a second look.

सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १५१
 
हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।

स्फुटतरफेनकदम्बकरम्बितमिव
 
यमुनाजलपूरम् ॥ हरि० ॥ २ ॥
 

 
श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
 

नीलनलिनमिव पीतपरागपटलभरवलयितमूलम् ॥ हरि० ॥ ३ ॥
 

 
पुनः किंभूतम् । अनङ्गनिवासं कामाश्रयम् । इति ध्रुवः ॥ अथ पदानि । किंभूतं

हरिम् । राधावदनविलोकनेन विकसिता उल्लसिता विविधा विकाराणां सात्विक-

भावानां विभङ्गा यत्र । एतेन राधामुखदर्शनादक्रममेव स्तंम्भादयः प्रादुर्भूता

इत्यर्थः । कमिव । जलनिधिमिव । किंभूतं जलनिधिम् । विधुमण्डलदर्शनेन तरलिता

ललिता मनोहर।रास्तरङ्गा यत्र । अत्र मण्डलग्रहणं समुद्रवृद्धिहेतुत्वं ज्ञापयति ॥ १ ॥

अपि च । <pratika>हारमिति । </pratika>किंभूतं हरिम् । उरसि हारं दधतम् । किंभूतं हारम् ।

<error>
अमलतरतां</error><fix>अमलतरताम्</fix> ऋच्छतीति अमलतरतारम् । अथवा अमलतरा निर्दोषास्तारा निर्मल-

मौक्तिकानि यत्र । किं कृत्वा । विदूरं दीर्घं विलम्ब्य विलम्बं कृत्वा । कमिव । यमु
-
नाजले पूरमिव । किंभूतं पूरम् । स्फुटतरा ये फेनास्तेन मिश्रितम् । अनेन स्वेदाख्य-

सात्विकभावोत्पत्तिर्दर्शिता । अनु च हारदर्शनं च तस्य श्यामव्यूढोरसि गौरी त्वं

स्फुरन्ती दीप्तिमेष्यसीति प्रोत्साहनम् । पौरुषायितरत विशेषश्च । फेनकदम्बेन सुरतश्रम-

जनिता उदबिन्दवश्च दर्शिताः । यमुनाजलपूरोपमानेन समद्रुतिश्च ॥ १ ॥ अपिच ।

<pratika>
श्यामलेति । </pratika>किंभूतं हरिम् । श्यामलं मृदुलं कलेवरमण्डलं यस्य । पुनः किंभू-

तम् । अधिगते गौरे दुकूले येन । किमिव । नीलनलिनमिव । पीतं यत्परागपटलं
 
.

 
वीक्षणेन विकसिताः प्रकटिता विविधा नानाविधा विकारा जृम्भणापाङ्गक्षेपणकर विमर्शा-

दिरूपास्त एव विभङ्गा विशिष्टोर्मयो येन तम् । कमिव । जलनिधिमिव । कीदृशं

जलनिधिम् । विधुमण्डलस्य चन्द्रमण्डलस्य दर्शनेन तरलिताश्चञ्चलीकृतास्तुङ्गा अत्यु-

च्
चास्तरङ्गा ऊर्मयो यस्य तादृशम् । अत्रागाधशृङ्गाररसाश्रयत्वेन कृष्णस्य जलनिधि-

साम्यम् । राधामुखस्य चाह्लादकारित्वादिना चन्द्रसाम्यम् । जृम्भणादिरूपाङ्गविकारस्यो-

त्तरोत्पन्नतया तरङ्गस्य साम्यम् । '"भङ्गस्तरङ्गे भेदे तु भङ्गो जयविपर्यये'" इति विश्वः
.

॥ १ ॥ विविधविकारानेवाह -- <pratika>हारमिति ।</pratika> कीदृशं कृष्णम् । विदूरमतिशयेन परि-
.

रभ्यालिङ्ग्य उरसि वक्षसि हारं दधतं बिभ्राणम् । कीदृशम् । अमलतरोऽतिशयेन विमल-

तरस्तारः शुद्धमौक्तिकं यत्र तादृशम् । कमिव । स्फुटतरः प्रकटतरो यः फेनकदम्बः

फेनसमूहस्तेन करम्बितं मिश्रितं यमुनाजलपूरमिव कालिन्दीप्रवाहमिव । अत्र कृष्ण-

शरीरस्य श्यामस्निग्धतया यमुनाप्रवाहसाम्यम् । हारस्य चातिशुभ्रतया फेनसमूह-

साम्यं बोध्यम् ।
अत्र हारालिङ्गनेन स्वाभिलाषप्रकटनान्मोयिताख्यो भावो वर्णितः ।
. साम्यं बोध्यम् ।
 

तदुक्तं रसार्णवसुधाकरे—' -- "स्वाभिलाषप्रकटनं मोहयिताख्यम्'" इति । '"मिश्रितं तु करम्बि-
तम्'

तम्"
इति धरणिः । '"तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके'" इति विश्वः । '"पूरो जल-

प्रवाहः स्यात्'" इति च ॥ २ ॥ पुनः कीदृशम् । <pratika>श्यामलेति ।</pratika> श्यामलं नीलं मृदुलं

कोमलं कलेवरमण्डलं यस्य तादृशम् । पुनः कीदृशम् । अधिगतमधिकं परिधेयत्वेन
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri