This page has been fully proofread once and needs a second look.

सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
सिञ्जान[^१]मञ्जुमञ्जीरं प्रविवेशा[^२]भिवेशनम् ॥ ७ ॥
 
<bold>वराडीरागयतितालाभ्यां गीयते । प्र० ॥ २२ ॥</bold>
 
राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥ १ ॥
 
हरिमेकरसं चिरमभिलषितविलासम् ।
सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवा[^३]सम् ॥ ध्रुवम् ॥
 
न कर्तव्य इति । अत एव दास इव । उपसेवितं तव पदाम्भोजं येन तस्मिन् ।
शार्दूलविक्रीडितम् । रूपकोत्प्रेक्षे अलंकृती ॥ ६ ॥ इदानीं त्रपानाशकृदुचितं कर्माह --
<pratika>सेति ।</pratika> सा राधा अभिवेशनं रतायोपकल्पितकेलिगृहं प्रविवेश । कथं यथा
स्यात्तथा । सिञ्जानौ सशब्दौ मञ्जुमञ्जीरौ यत्र तद्यथा स्यात् । किंभूता सा ।
ससाध्वसं च सानन्दं च ससाध्वससानन्दं यथा स्यात्तथा । गोविन्दे लोले सतृष्णे
लोचने च यस्याः सा । साध्वसेन चले । आनन्देन साभिलाषे । अत्र ससा-
ध्वसानन्दमिति एकेनैव सहशब्देन कृते प्रत्येकमुपादानं चलसतृष्णयोः पृथग्यो-
गार्थम् । अनुष्टुप्पथ्यावृत्तम् ॥ ७ ॥ आर्योक्तमेव विवृणोति -- <pratika>राधावदनेति ।</pratika>
तत्र पूर्वं ध्रुवपदम् । <pratika>हरिमेकरसमिति ।</pratika> सा राधा हरिं वदति स्म । भोक्तृ-
त्वेन हरिस्वरूपेण संवादं प्राप्नोति स्म । किंभूतं हरिम् । एकरसमेक एव राधाविषये
रसो रागो यस्य । पुनः किंभूतम् । चिरमभिलषितो राधासंबन्धी विलासो येन ।
पुनः किंभूतम् । गुरुर्यो राधाया आगमननिमित्तो हर्षस्तस्य वशंवदं वशं वदनं यस्य ।
 
लवो लेशस्तेन क्रीते । "संकटं ना सुसंबाधः" इत्यमरः । "लवलेशकणाणवः" इत्यमरः
॥ ६ ॥ <pratika>सा ससाध्वसेति ।</pratika> सा राधा निकेतनं लीलागृहं प्रविवेश प्रविष्टा । किं
कुर्वती । मञ्जु मनोहरो मञ्जीरो नूपुरस्तं सिञ्जाना शब्दं कुर्वती । कथं यथा
स्यात् । ससाध्वसं साध्वससहितं सानन्दमानन्दसहितं च यथा स्यादित्यर्थः । कीदृशी
सा । गोविन्दे लोले चञ्चले लोचने यस्याः सा ॥ ७ ॥ <pratika>राधेति ।</pratika> गीतस्यास्य वराडी-
रागो रूपकतालः । गीतार्थस्तु -- सा राधा हरिं कृष्णं ददर्श दृष्टवती । कीदृशम् ।
एकरसं एको मुख्यः शृङ्गाराख्यो रसो यस्य तम् । यद्वा एकस्तुल्यो रसो यस्य तम् ।
राधाया यादृशः शृङ्गाररसः कृष्णस्यापि तादृश एवेति भावः । पुनः कीदृशम् । चिरं
बहुकालं व्याप्याभिलषितो वाञ्छितो विलासः केलिर्येन तम् । पुनः कीदृशम् । गुरु-
र्महान्यो हर्ष आनन्दस्तस्य वशंवदमायत्तं वदनं यस्य तम् । पुनः कीदृशं हरिम् ।
अनङ्गविकारम् । "क्वचित् अनङ्गविकास" इति पाठः । तदानङ्गस्य कामस्य विकासः स्फुटता
यत्र तम् । <pratika>राधेति ।</pratika> पुनः कीदृशं हरिम् । राधाया वदनं मुखं तस्य विलोकनेन
 
[^१.] "सिञ्जाना" इति पाठः । [^२.] "प्रविवेश निकेतनम्" इति पाठः । [^३.] "भङ्गविकारम्",
"मनङ्गविकारम्" इति पाठौ ।