This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: ११
 
सा ससाध्वससानन्दं गोविन्दे लोललोचना ।

सिञ्जान[^१]मञ्जुमञ्जीरं प्रविवेशोशा[^२]भिवेशनम् ॥ ७ ॥

 
<bold>
वराडीरागयतितालाभ्यां गीयते । प्र० ॥ २२ ॥
</bold>
 
राधावदन विलोकनविकसित विविध विकारविभङ्गम् ।

जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥ १ ॥

 
हरिमेकरसं चिरमभिलषितविलासम् ।
 

सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवाँवा[^३]सम् ॥ ध्रुवम् ॥
 
१५०
 
-
 

 
न कर्तव्य इति । अत एव दास इव । उपसेवितं तव पदाम्भोजं येन तस्मिन् ।

शार्दूलविक्रीडितम् । रूपकोत्प्रेक्षे अलंकृती ॥ ६ ॥ इदानीं त्रपानाशक्ककृदुचितं कर्माह -
-
<pratika>
सेति ।</pratika> सा राधा अभिवेशनं रतायोपकल्पितकेलिगृहं प्रविवेश । कथं यथा

स्यात्तथा । सिञ्जानौ सशब्दौ मञ्जुमञ्जीरौ यत्र तद्यथा स्यात् । किंभूता सा ।

ससाध्वसं च सानन्दं च ससाध्वससानन्दं यथा स्यात्तथा । गोविन्दे लोले सतृष्णे

लोचने च यस्याः सा । साध्वसेन चले । आनन्देन साभिलाषे । अत्र ससा-

ध्वसानन्दमिति एकेनैव सहशब्देन कृते प्रत्येकमुपादानं चलसतृष्णयोः पृथग्यो-

गार्थम् । अनुष्टुप्पथ्यावृत्तम् ॥ ७ ॥ आर्योक्तमेव विवृणोति - - <pratika>राधावद नेति ।
</pratika>
तत्र पूर्वं ध्रुवपदम् । <pratika>हरिमेकरसमिति ।</pratika> सा राधा हरिं वदति स्म । भोक्तृ-

त्वेन हरिस्वरूपेण संवादं प्राप्नोति स्म । किंभूतं हरिम् । एकरसमेक एव राधाविषये

रसो रागो यस्य । पुनः किंभूतम् । चिरमभिलषितो राधासंबन्धी विलासो येन ।

पुनः किंभूतम् । गुरुर्यो राधाया आगमननिमित्तो हर्षस्तस्य वशंवदं वशं वदनं यस्य ।

 
लवो लेशस्तेन क्रीते । '"संकटं ना सुसंबाध:'धः" इत्यमरः । '"लवलेशकणाणवः'" इत्यमरः

॥ ६ ॥ <pratika>सा ससाध्वसेति ।</pratika> सा राधा निकेतनं लीलागृहं प्रविवेश प्रविष्टा । किं

कुर्वती । मञ्जु मनोहरो मञ्जीरो नूपुरस्तं सिञ्जाना शब्दं कुर्वती । कथं यथा

स्यात् । ससाध्वसं साध्वससहितं सानन्दमानन्दसहितं च यथा स्यादित्यर्थः । कीदृशी

सा । गोविन्दे लोले चञ्चले लोचने यस्याः सा ॥ ७ ॥ <pratika>राधेति ।</pratika> गीतस्यास्य वराडी-

रागो रूपकतालः । गीतार्थस्तु -- सा राधा हरिं कृष्णं ददर्श दृष्टवती । कीदृशम् ।

एकरसं एको मुख्यः शृङ्गाराख्यो रसो यस्य तम् । यद्वा एकस्तुल्यो रसो यस्य तम् ।

राधाया यादृशः शृङ्गाररसः कृष्णस्यापि तादृश एवेति भावः । पुनः कीदृशम् । चिरं

बहुकालं व्याप्याभिलषितो वाञ्छितो विलासः केलिर्येन तम् । पुनः कीदृशम् । गुरु-
मै

र्म
हान्यो हर्ष आनन्दस्तस्य वशंवदमायत्तं वदनं यस्य तम् । पुनः कीदृशं हरिम् ।

अनङ्गविकारम् । "क्वचित् अनङ्गविकास" इति पाठः । तदानङ्गस्य कामस्य विकासः स्फुटता
यत्र तम् ।

यत्र तम् । <pratika>
राधेति ।</pratika> पुनः कीदृशं हरिम् । राधाया वदनं मुखं तस्य विलोकनेन
३ ' भङ्ग विकारम्',
 
-
 

 
[^
'.] "सिञ्जाना'" इति पाठः । [^ ' .] "प्रविवेश निकेतनम्'" इति पाठः ।
'मन
[^३.] "भङ्गविकारम्'",
"मनङ्गविकारम्"
इति पाठौ ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri