2022-10-18 04:14:23 by ambuda-bot
This page has not been fully proofread.
सर्ग: ११ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १४९
विहितपद्मावतीसुखसमाजे ।
कुरु मुरारे मङ्गलशतानि ।
•
भणति जयदेवकविराजराजे । प्रविश० ॥ ८ ॥
त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः
कन्दर्पेण च पातुमिच्छति सुधासंबाधबिम्बाधरम् ।
अस्याङ्कं तद्लंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-
क्रीते दास इवोपसेवितपदाम्भोजे कुतः संभ्रमः ॥ ६ ॥
मुदितं यन्मधुपकुलं तेन कलितो रावो गुजारवो यत्र ॥ ७ ॥ अपि च -विहि-
तेति । इदानीमष्टपदीं परमेश्वरे समर्पयन्नाह – हे मुरारे, जयदेव कविराजे मङ्गलश-
तानि कुरु । किंभूते । विहितं कृतं पद्मावत्या लक्ष्म्याः सुखं सुखरूपं समाजं स्थानं
प्रासादो येन । तिन्दुबिल्वे जयदेवकारितो महालक्ष्म्याः प्रासादोऽस्तीति प्रसिद्धिः ।
लक्ष्मीभक्त्या हरिस्तुष्यतीति ॥ ८ ॥ इदानीं त्रपानिरसनायाह – त्वामिति । हे
राधे, अयं श्रीकृष्णस्तव सुधासंबाधं सुधायाः संकटं बिम्बाधरं पातुमिच्छति ।
किंभूतोऽयम् । त्वामेवंविधां दुर्वहां चित्तेन वहन्नतिश्रान्तः श्रमं प्राप्तः अत एव
भृशं तापितः। यतः यः श्रान्तस्तप्तश्च भवति स तदुपशान्त्यै सुधादिपानं कर्तुमिच्छति ।
तत्तस्मादस्य मुरारेरङ्कं क्षणमलंकुरु । कथं मयास्य तादृशस्य महानुभावस्यैत-
तकर्तुं युज्यत इति वदसि चेदित्याशयाह – इह तावत्संभ्रम आदरः कुतः । किं-
भूते इह । भ्रूक्षेप एव यो लक्ष्मीलवस्तेन क्रीते । एतावता मूल्येन गृहीते आदरो
'पक्क-
सार्वभौमस्तत्र मङ्गलशतानि
। पुनः कीदृशे । विहितः
ननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धविपर्यासाद्विपर्यासोपमेष्यते ॥' इति ।
दाडिमबीजाभं माणिक्यं शिखरं विदुः ।' इति शाश्वतः ॥ ७ ॥ विहितेति । हे मुरारे,
जयदेवकविराजराजे जयदेव एव कवीनां राजराज:
कल्याणशतानि कुरु । कीदृशे । भगति तव गुणान्वदति
पद्मावत्याः सुखसमाजः सुखसमूहो येन तादृशे । एतेन स्वस्त्रीतत्परत्वकथनेन परस्त्री-
वैमुख्यं ध्वनितम् । 'राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे ।' इति विश्वः ॥ ८ ॥
कृष्णोत्कण्ठाधिक्यमाह—त्वामिति । अयं कृष्णस्त्वां चित्तेन मनसा वहन्नतिश्रान्तोऽति-
शयेन श्रमयुक्तो जातः । कन्दर्पेण कामेन च भृशमतिशयेन तापितः संतापितः ।
अतिसूक्ष्मे चित्ते पीनस्तनजघनवत्याः स्तनधारणेन श्रमो युक्त एव । अन्योऽपि यो गुरु-
तरभारोद्वहनं करोति तस्याप्यतिश्रमो भवतीति भावः । अतस्तव सुषयामृतेन संबाधं
संकटं बिम्बाधरं बिम्बफलमधरमोष्ठं पातुमिच्छति । तस्माद्धेतोस्तस्य कृष्णस्याङ्के क्रोडं
क्षणं त्वमलंकुरु भूषय । अहमपि स्फुटापराधा । अतस्तदकारोहणे बिभेमीत्यत आह
इहेति । इह कृष्णे कुतः कस्माद्धेतोः संभ्रमो भयम् । कीदृशे कृष्णे। सेवितं
त्वदीयपदाम्भोजं त्वदीयचरणकमलं येन तादृशे । अत एव दासजनेऽपि । तत्र
हेतुगर्भविशेषणमाह — भ्रूक्षेपेति । अक्षेपस्य ध्रुवः चालनस्य या लक्ष्मीः संपत्तस्या
-
-
१५ गीत
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
०