This page has been fully proofread once and needs a second look.

१४८
 
गीतगोविन्दकाव्यम् [ सर्गः ११
 
विततबहुवल्लिनवपल्लव घने
 

विलस चिरमलसपीनजघने । प्रविश० ॥ ५ ॥

 
मधुमुदितमधुपकुलकलितरावे
 

 

विलस कु[^१]सुमशरसरसभावे । प्रविश० ॥ ६ ॥

 
मधुरतरपिकनिकरनिनदमुखरे
 

 

विलस दशनरुचिरुचिरशिखरे । प्रविश० ॥ ७ ॥
 

 
तच्छीतं च मृदुपवनेन सुरभिशीतम् ॥ ४ ॥ अपि च <pratika>मधुरतरेति ।</pratika> हे राधे, इह

विलस । किंभूते राधे । शुचीनि रुचिराणि दशनशिखराणि यस्यास्तस्याः संबुद्धिः ।

किंभूते इह । मधुरतरो यः पिकनिकरस्य निनदस्तेन मुखरे ॥ ५ ॥ अपि च ।

<pratika>
विततेति ।</pratika> हे राधे, इह चिरं विलस । किंभूते राधे । अलसं पीनं जघनं यस्या-

स्तस्याः संबुद्धिः । किंभूते इह । विततानि बहूनि वल्लीनां नवपल्लवानि तैर्घने ।

अपि च <pratika>मधुमुदितेति ।</pratika> हे राधे, इह विलस । किंभूते राधे । कुसुमशरे कामे

रसो रागः साभिलाषो भावोऽभिप्रायो यस्यास्तस्याः संबुद्धिः । किंभूते इह । मधुना
 

 
ललितं मनोहरं गीतम् । लालित्यं हावविशेषः यस्यास्तादृशि । यद्वा कृष्णे विलस ।

कीदृशे कृष्णे । रतिललितं मनोहरं वलितं संभक्तं गीतं यस्य तादृशे । क्वचित्सरसे ति

पाठ:ठः । ललितलक्षणं तु – '-- "नानाविधमनाहार्यं स्वभावेन मनोहरम् । शृङ्गारचेष्टितं

स्त्रीणां ललितं संप्रचक्षते" ॥ ४ ॥ <pratika>विततेति ।</pratika> हे राधे, माधवसमीपं प्रविश । इह

केलिसदने चिरं विलस च । कीदृशे केलिसदने । विततैर्विस्तीर्णैर्बहुमिभिर्वल्लीनां लतानां

नवपल्लवैर्घने सान्द्रे । त्वं कीदृशी । अलसपीनजघने । अलसे मन्थरे पीने मांसले जघने

यस्यास्तादृशि ॥ ५ ॥ <pratika>मधुमुदितेति ।</pratika> कीदृशे केलिसदने । मधुना पुष्परसेन मुदिता -

न्यानन्दितानि यानि मधुपकुलानि भ्रमरसमूहास्तैः कलितो विहितो राव:वः शब्दो यत्र

तादृशे । त्वं कीदृशी। मदनरसरभसभावे मदनस्य कामस्य यो रसः शृङ्गाराख्यस्तत्र

यो रभस उत्साहस्तेनोपलक्षितो भावो यस्यास्तादृशि । यद्वा । इह माधवे विलस ।

कीदृशे माधवे । मदनरसेन यो रभसस्तेनोपलक्षितो भावो यस्य तादृशे इत्यर्थः । यद्यपि

मधुपेनैव मधुपानकर्तृत्वं प्राप्तं तथापि इदानीं मधुपानप्राप्तये मधुमुदितेत्युपात्तम् ॥ ६ ॥

<pratika>
मधुरतरेति ।</pratika> कीदृशे केलिसदने । मधुरतरो यः पिकनिकराणां कोकिलसमूहानां निनदः

शब्दस्तेन मुखरे वाचाले । यद्वा । एतदपि राधे इत्यस्यैव विशेषणम् । तदा मधुरतर-

पिकनिकराणामिव यो निनदः सुरते कण्ठकूजितं तेन मुखरमित्यर्थः । पुनः कीदृशि ।

दशनरुचिर्दन्तकान्तिरेव रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि ।
यद्वा ।
दशनरुचिवद्रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि । यद्वा इह माधवे विलस ।

कीदृशे माधवे 1 दशनरुचिरुचिरशिखरे 1 दशनरुचीत्यत्र द्वितीयव्याख्याने

प्रसिद्धशिखरस्योपमेयतयास्य विपर्यासोपमा बोध्या । तदुक्तं दण्डिना—' -- "त्वदा-
यद्वा ।
 

 
[^
'.] "विलस मदनरसरभसभावे'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri