This page has not been fully proofread.

१४८
 
गीतगोविन्दकाव्यम् [ सर्गः ११
 
विततबहुवल्लिनवपल्लव घने
 
विलस चिरमलसपीनजघने । प्रविश० ॥ ५ ॥
मधुमुदितमधुपकुलकलितरावे
 

 
विलस कुसुमशरसरसभावे । प्रविश० ॥ ६ ॥
मधुरतरपिकनिकरनिनदमुखरे
 

 
विलस दशनरुचिरुचिरशिखरे । प्रविश० ॥ ७ ॥
 
तच्छीतं च मृदुपवनेन सुरभिशीतम् ॥ ४ ॥ अपि च मधुरतरेति । हे राधे, इह
विलस । किंभूते राधे । शुचीनि रुचिराणि दशनशिखराणि यस्यास्तस्याः संबुद्धिः ।
किंभूते इह । मधुरतरो यः पिकनिकरस्य निनदस्तेन मुखरे ॥ ५ ॥ अपि च ।
विततेति । हे राधे, इह चिरं विलस । किंभूते राधे । अलसं पीनं जघनं यस्या-
स्तस्याः संबुद्धिः । किंभूते इह । विततानि बहूनि वल्लीनां नवपल्लवानि तैर्घने ।
अपि च मधुमुदितेति । हे राधे, इह विलस । किंभूते राधे । कुसुमशरे कामे
रसो रागः साभिलाषो भावोऽभिप्रायो यस्यास्तस्याः संबुद्धिः । किंभूते इह । मधुना
 
ललितं मनोहरं गीतम् । लालित्यं हावविशेषः यस्यास्तादृशि । यद्वा कृष्णे विलस ।
कीदृशे कृष्णे । रतिललितं मनोहरं वलितं संभक्तं गीतं यस्य तादृशे । क्वचित्सरसे ति
पाठ: । ललितलक्षणं तु – 'नानाविधमनाहार्यं स्वभावेन मनोहरम् । शृङ्गारचेष्टितं
स्त्रीणां ललितं संप्रचक्षते ॥ ४ ॥ विततेति । हे राधे, माधवसमीपं प्रविश । इह
केलिसदने चिरं विलस च । कीदृशे केलिसदने । विततैर्विस्तीर्णैर्बहुमिर्वल्लीनां लतानां
नवपल्लवैर्घने सान्द्रे । त्वं कीदृशी । अलसपीनजघने । अलसे मन्थरे पीने मांसले जघने
यस्यास्तादृशि ॥ ५ ॥ मधुमुदितेति । कीदृशे केलिसदने । मधुना पुष्परसेन मुदिता -
न्यानन्दितानि यानि मधुपकुलानि भ्रमरसमूहास्तैः कलितो विहितो राव: शब्दो यत्र
तादृशे । त्वं कीदृशी। मदनरसरभसभावे मदनस्य कामस्य यो रसः शृङ्गाराख्यस्तत्र
यो रभस उत्साहस्तेनोपलक्षितो भावो यस्यास्तादृशि । यद्वा । इह माधवे विलस ।
कीदृशे माधवे । मदनरसेन यो रभसस्तेनोपलक्षितो भावो यस्य तादृशे इत्यर्थः । यद्यपि
मधुपेनैव मधुपानकर्तृत्वं प्राप्तं तथापि इदानीं मधुपानप्राप्तये मधुमुदितेत्युपात्तम् ॥ ६ ॥
मधुरतरेति । कीदृशे केलिसदने । मधुरतरो यः पिकनिकराणां कोकिलसमूहानां निनदः
शब्दस्तेन मुखरे वाचाले । यद्वा । एतदपि राधे इत्यस्यैव विशेषणम् । तदा मधुरतर-
पिकनिकराणामिव यो निनदः सुरते कण्ठकूजितं तेन मुखरमित्यर्थः । पुनः कीदृशि ।
दशनरुचिर्दन्तकान्तिरेव रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि ।
दशनरुचिवद्रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि । यद्वा इह माधवे विलस ।
कीदृशे माधवे 1 दशनरुचिरुचिरशिखरे 1 दशनरुचीत्यत्र द्वितीयव्याख्याने
प्रसिद्धशिखरस्योपमेयतयास्य विपर्यासोपमा बोध्या । तदुक्तं दण्डिना—'त्वदा-
यद्वा ।
 
१ 'विलस मदनरसरभसभावे' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri