This page has been fully proofread once and needs a second look.

ङ्ड्गेन पाणिपादं तद्द्धं चिच्छेद यत्नतः ।

ततस्ते गन्तुमनसञ्श्चौरा जग्मुर्यदृच्छया ॥

 
जयदेवोऽपि प्रारब्धभोगोऽयमित्यमन्यत ।

चिन्तयानो जगन्नाथं तत्रारण्ये क्षुधार्दितः ॥

 
अथ तत्रैत्य नृपतिर्मृगयां पर्यटन्वने ।

एकाकी हयमारूढो धावन्तं मृगमन्वगात् ॥

 
राजा तत्राजगामाथ जयदेवसमीपगम् ।

मृगं दृष्ट्वा न विव्याध जयदेवेन शङ्कितः ॥

 
आरोग्प्य शिबिकायां तमानिनाय निजं पुरम् ।

तत्र पद्मावतीं साध्वीमानाय्य नृपतिस्तदा ॥

 
सेवयामास सर्वैश्च जयदेवं नृपोत्तमः ।

ततो राजा प्रतिदिनं जयदेव दिदृक्षया ॥

 
जगाम तद्गृहं तस्य तदातिथ्यं चकार सः ।

एवं गतेषु कालेषु कियत्सु च ततः कविः ॥

 
समाजग्मुस्तु ते चौरा मुद्रामात्रविभूषिताः ।

साधुवेषधरास्ते तमुपकारं दिदृक्षवः ॥

 
आगच्छन्तो भगवतो गृहमायान्त्वसंशयम् ।

पद्मावतीं समाहूय पाद्याद्यैस्तानपूजयत् ॥

 
ततस्तान्भोजयित्वा तमाजुहाव नृपं कविः ।

राजा तत्रागतस्तं च जयदेवोऽभ्यभाषत ॥

 
पुरस्कृत्य च तान्दुष्टानदुष्टेनान्तरात्मना ।

राजन्नेते गुरुसमा महान्तः शास्त्रपारगाः ॥

 
एतेभ्यो देहि वित्तानि पात्रमेते न संशयः ।

इति श्रुत्वा ततो राजा रत्नानि विविधानि च ॥

 
वस्त्राण्याभरणादीनि ददौ परमभक्तितः ।

गृहीत्वा तद्धनं ते वै यथेष्टं गन्तुमुद्यताः ॥

 
तदा प्राह नृपं भूयो जयदेवोऽतिहर्षितः ।

अहो मार्गे कियद्दूरं वनमत्यन्तभीषणम् ॥

 
तस्य संतारणार्थाय भृत्यं तेभ्यो नियोजय ।

वनाद्हिरिमान्कृत्वा पुनरायातु मेऽन्तिकम् ॥

 
इति श्रुत्वा ततो राजा पदातीन्पञ्च तान्प्रति ।

नियोजयामास तदा ते जग्मुस्तैः सहाद्भुतम् ॥

 
ततो सर्वनगैस्ते ( ? ) तु तरुच्छायामुपाश्रिताः ।

राजभृत्याः कथाशेषे तानूचुश्च विनीतवत् ॥

 
अहो कवेर्भवन्तः के तद्ब्रूत कृपया मुदा ।

युष्मदर्थं तु भक्त्या यद्राजानं प्रार्थयत्कविः ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri