2022-10-18 04:13:46 by ambuda-bot
This page has not been fully proofread.
खङ्गेन पाणिपादं तद्वद्धं चिच्छेद यत्नतः ।
ततस्ते गन्तुमनसञ्चौरा जग्मुर्यदृच्छया ॥
जयदेवोऽपि प्रारब्धभोगोऽयमित्यमन्यत ।
चिन्तयानो जगन्नाथं तत्रारण्ये क्षुधार्दितः ॥
अथ तत्रैत्य नृपतिर्मृगयां पर्यटन्वने ।
एकाकी हयमारूढो धावन्तं मृगमन्वगात् ॥
राजा तत्राजगामाथ जयदेवसमीपगम् ।
मृगं दृष्ट्वा न विव्याध जयदेवेन शङ्कितः ॥
आरोग्य शिबिकायां तमानिनाय निजं पुरम् ।
तत्र पद्मावतीं साध्वीमानाय्य नृपतिस्तदा ॥
सेवयामास सर्वैश्च जयदेवं नृपोत्तमः ।
ततो राजा प्रतिदिनं जयदेव दिदृक्षया ॥
जगाम तद्गृहं तस्य तदातिथ्यं चकार सः ।
एवं गतेषु कालेषु कियत्सु च ततः कविः ॥
समाजग्मुतु ते चौरा मुद्रामात्रविभूषिताः ।
साधुवेषधरास्ते तमुपकारं दिदृक्षवः ॥
आगच्छन्तो भगवतो गृहमायान्त्वसंशयम् ।
पद्मावतीं समाहूय पाद्याद्यैस्तानपूजयत् ॥
ततस्तान्भोजयित्वा तमाजुहाव नृपं कविः ।
राजा तत्रागतस्तं च जयदेवोऽभ्यभाषत ॥
पुरस्कृत्य च तान्दुष्टानदुष्टेनान्तरात्मना ।
राजन्नेते गुरुसमा महान्तः शास्त्रपारगाः ॥
एतेभ्यो देहि वित्तानि पात्रमेते न संशयः ।
इति श्रुत्वा ततो राजा रत्नानि विविधानि च ॥
वस्त्राण्याभरणादीनि ददौ परमभक्तितः ।
गृहीत्वा तद्धनं ते वै यथेष्टं गन्तुमुद्यताः ॥
तदा प्राह नृपं भूयो जयदेवोऽतिहर्षितः ।
अहो मार्गे कियद्दूरं वनमत्यन्तभीषणम् ॥
तस्य संतारणार्थाय भृत्यं तेभ्यो नियोजय ।
वनाद्वहिरिमान्कृत्वा पुनरायातु मेऽन्तिकम् ॥
इति श्रुत्वा ततो राजा पदातीन्पञ्च तान्प्रति ।
नियोजयामास तदा ते जग्मुस्तैः सहाद्भुतम् ॥
ततो सर्वनगैस्ते ( ? ) तु तरुच्छायामुपाश्रिताः ।
राजभृत्याः कथाशेषे तानूचुश्च विनीतवत् ॥
अहो कवेर्भवन्तः के तद्रूत कृपया मुदा ।
युष्मदर्थं तु भक्त्या यद्राजानं प्रार्थयत्कविः ॥
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri