This page has been fully proofread once and needs a second look.

सर्गः नवभव[^] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १४७
 
नवभवं
दशोकदलशयनसारें
 
रे
विलस कुचकलशतरलहारे । प्रविश० ॥ २ ॥
कुसुमः

 
कुसुम
चयरचितशुचिवासगेहे
 

 

विलस कुसुमसुकुमारदेहे । प्रविश० ॥ ३ ॥

 
मृ[^२]दुचलमलयपवनसुरभिशीते ।
 
विलसँ

विलस[^३]
मदनशरनिकरमीभीते । प्रविश० ॥ ४ ॥
 

 
हरं यत्कुञ्जतलं कुञ्जस्याधरप्रदेशस्तदेव केलिसदनं यत्र ॥ १ ॥ अपि च <pratika>नवभ-

वेति ।</pratika> हे कुचकलशतरलहारे, कुचकलशे तरलश्चलो हारो यस्यास्तस्याः संबुद्धिः ।

इहेत्यस्य विशेषणम् । किंभूते इह । नवं भवद्यदशोकदलानां शयनं तेन सारमुत्कृष्टं

तस्मिन् ॥ २ ॥ अपि च <pratika>कुसुमेति ।</pratika> हे कुसुमसुकुमारदेहे, इह विलस । किंभूते

इह । कुसुमानां चयस्तेन रुचिरं शुचि च वासार्थं गेहं यस्मिन्निकुञ्जतले । अत्र

सर्वत्र एकैकं राधाविशेषणं एकैकं निकुञ्ज विशेषणम् ॥ ३ ॥ अपि च
। <pratika>मृदु-

चलेति ।</pratika> हे राधे, इह विलस । किंभूते राधे । मदनशर निकरागीद्भीतिर्भयं यस्याः

तस्याः संबुद्धिः । इद्द मृदु यथा स्यात्तथा चलो यो मलयपवनस्तेन सुरभि च

 
कीदृशे केलिसदने ॥ १ ॥ <pratika>नवेति ।</pratika> नवं नूतनमथ च लसच्छोभमानं यदशोकदल-

मशोकपल्लवं यस्य तच्छयनं शय्या तदेव सारो महाधनं यत्र तादृशे । त्वं कीदृशी ।

कुचकलशयोः स्तनकलशयोस्तरलश्चञ्चलो हारो यस्यास्तादृशी । अपरस्मिन्नपि गृहे

महाधनं तिष्ठतीति ध्वनितम् । यद्वा नवलसदित्यपि राधे इत्यस्यैव विशेषणम् । तदा

नवलसदशोकदलशयनमेव सारो यस्यास्तादृशि । यद्वा इह माधवे विलस । कीदृशे

माधवे । नवलसदशोकदलमेव सारो यस्य तादृशे ॥ २ ॥<pratika> कुसुमेति ।</pratika> हे राधे, इह

कुसुमचयेन पुष्पसमूहेन रचितं विरचितं शुचि अनुपहतं नायिकान्तरेणानुपभुक्तं

यद्वासगेहं लीलागृहं तत्र विलस । यद्वा कुसुमचयेन रचितमर्थात्कृष्णेन निर्मितं शुचि

वासगृहं यस्यास्तादृशी इति राधे इत्यस्यैव विशेषणम् । पुनः कीदृशी त्वम् । कुसुम-

वत्सुकुमारः कोमलो देहो यस्यास्तादृशी । यद्वा इह माधवे विलस । कीदृशे माधवे ।

कुसुमचयेन रचितं शुचि वासगेहं येन तादृशे । कीदृशे माघवे । कुसुमवत्सुकुमारो

देहो यस्य तादृशे । '"शुचि अनुपहते'" इति विश्वप्रकाशः ॥ ३ ॥ <pratika>मृदु चलेति ।
</pratika>
हे राधे, माधवसमीपं चल व्रज 1 इइ केलिसदने प्रविश विलस । कीदृशे

केलिसदने । मलयपवनसुरभिशीते मलयसंबन्धी यः पवनस्तेन सुरभि सुगन्धं शीतलं च

तस्मिन् ! यद्वा इह माधवे विलस । कीदृशे माधवे । मलयपवनसुरभिशीते मलय-

संबन्धी यः पवनो वायुस्तेन सुरभिशीतले वा । यद्वा चलेत्यपि पवनस्यैव विशेषणम् ।

तथा च चलश्चञ्चलो यो मलयपवनस्तेन सुरभिशीतले इत्यर्थः । चलेत्यनेन ईषच्चाञ्चल्य-

मुक्तम् । तेन मान्द्यमुक्तम् । त्वं कीदृशी । रतिवलितललितगीते, रतौ वलितं
 

 
[^
'.] "नवलसदशोक'" इति पाठः । [^ '.] "मृदु'" इति पदं रसमञ्जरीटीकाकृदादृते मूले न

दृश्यते । [^ '.] "रतिवलितललितगीते'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri