This page has not been fully proofread.

सर्गः ११ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १४७
 
नवभवंदशोकदलशयनसारें
 
विलस कुचकलशतरलहारे । प्रविश० ॥ २ ॥
कुसुमःचयरचितशुचिवासगेहे
 

 
विलस कुसुमसुकुमारदेहे । प्रविश० ॥ ३ ॥
मृदुचलमलयपवनसुरभिशीते ।
 
विलसँ मदनशरनिकरमीते । प्रविश० ॥ ४ ॥
 
हरं यत्कुञ्जतलं कुञ्जस्याधरप्रदेशस्तदेव केलिसदनं यत्र ॥ १ ॥ अपि च नवभ-
वेति । हे कुचकलशतरलहारे, कुचकलशे तरलश्चलो हारो यस्यास्तस्याः संबुद्धिः ।
इहेत्यस्य विशेषणम् । किंभूते इह । नवं भवद्यदशोकदलानां शयनं तेन सारमुत्कृष्टं
तस्मिन् ॥ २ ॥ अपि च कुसुमेति । हे कुसुमसुकुमारदेहे, इह विलस । किंभूते
इह । कुसुमानां चयस्तेन रुचिरं शुचि च वासार्थं गेहं यस्मिन्निकुञ्जतले । अत्र
सर्वत्र एकैकं राधाविशेषणं एकैकं निकुञ्ज विशेषणम् ॥ ३ ॥ अपि च
। मृदु-
चलेति । हे राधे, इह विलस । किंभूते राधे । मदनशर निकरागीतिर्भयं यस्याः
तस्याः संबुद्धिः । इद्द मृदु यथा स्यात्तथा चलो यो मलयपवनस्तेन सुरभि च
कीदृशे केलिसदने ॥ १ ॥ नवेति । नवं नूतनमथ च लसच्छोभमानं यदशोकदल-
मशोकपल्लवं यस्य तच्छयनं शय्या तदेव सारो महाधनं यत्र तादृशे । त्वं कीदृशी ।
कुचकलशयोः स्तनकलशयोस्तरलश्चञ्चलो हारो यस्यास्तादृशी । अपरस्मिन्नपि गृहे
महाधनं तिष्ठतीति ध्वनितम् । यद्वा नवलसदित्यपि राधे इत्यस्यैव विशेषणम् । तदा
नवलसदशोकदलशयनमेव सारो यस्यास्तादृशि । यद्वा इह माधवे विलस । कीदृशे
माधवे । नवलसदशोकदलमेव सारो यस्य तादृशे ॥ २ ॥ कुसुमेति । हे राधे, इह
कुसुमचयेन पुष्पसमूहेन रचितं विरचितं शुचि अनुपहतं नायिकान्तरेणानुपभुक्तं
यद्वासगेहं लीलागृहं तत्र विलस । यद्वा कुसुमचयेन रचितमर्थात्कृष्णेन निर्मितं शुचि
वासगृहं यस्यास्तादृशी इति राधे इत्यस्यैव विशेषणम् । पुनः कीदृशी त्वम् । कुसुम-
वत्सुकुमारः कोमलो देहो यस्यास्तादृशी । यद्वा इह माधवे विलस । कीदृशे माधवे ।
कुसुमचयेन रचितं शुचि वासगेहं येन तादृशे । कीदृशे माघवे । कुसुमवत्सुकुमारो
देहो यस्य तादृशे । 'शुचि अनुपहते' इति विश्वप्रकाशः ॥ ३ ॥ मृदु चलेति ।
हे राधे, माधवसमीपं चल व्रज 1 इइ केलिसदने प्रविश विलस । कीदृशे
केलिसदने । मलयपवनसुरभिशीते मलयसंबन्धी यः पवनस्तेन सुरभि सुगन्धं शीतलं च
तस्मिन् ! यद्वा इह माधवे विलस । कीदृशे माधवे । मलयपवनसुरभिशीते मलय-
संबन्धी यः पवनो वायुस्तेन सुरभिशीतले वा । यद्वा चलेत्यपि पवनस्यैव विशेषणम् ।
तथा च चलश्चञ्चलो यो मलयपवनस्तेन सुरभिशीतले इत्यर्थः । चलेत्यनेन ईषच्चाञ्चल्य-
मुक्तम् । तेन मान्द्यमुक्तम् । त्वं कीदृशी । रतिवलितललितगीते, रतौ वलितं
 
१ 'नवलसदशोक' इति पाठः । २ 'मृदु' इति पदं रसमञ्जरीटीकाकृदादृते मूले न
दृश्यते । ३ 'रतिवलितललितगीते' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri