2022-11-12 07:32:23 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रीडावतीमथ स[^१]खीमियमित्युवाच ॥ ५ ॥
<bold>वराडीरागरू[^२]पकतालाभ्यां गीयते । प्र० ॥ १७ ॥</bold>
मञ्जुतरकुञ्जतलकेलिसदने
विलस रतिरभसहसितवदने ॥ १ ॥
प्रविश राधे माधवसमीपमिह ॥ ध्रुवम् ॥
यस्य द्वारे हरिं निरीक्ष्य । किंभूतां राधाम् । व्रीडावतीम् । कामवतीनामपि युव-
तीनां प्रथमसंगमे लज्जा किमपि कामातिशयं विदधाति । किंभूतस्य निलयस्य । हा-
रावल्यास्तरलो मध्यमणिः काञ्चनस्य मेखला दाम च मञ्जीरौ कङ्कणे च तेषु मणयः
तेषां द्युत्या दीपितस्य । वसन्ततिलकावृत्तम् । अतिशयोक्तिरलंकारः ॥ ५ ॥ तदेव
सखीवाक्यं विवृणोति -- <pratika>मञ्जुतरेति ।</pratika> अत्राष्टपद्यामुद्ग्राहापेक्षया ध्रुवस्य बाहुल्यम् ।
तत्रापि च प्रतिपादमन्तिमं खण्डं पदान्तरापेक्षया नवं नवमेवेति बोद्धव्यम् । तत्रापि
राधाविशेषणानि सर्वाण्यनुभावत्वेन बोधव्यानि स्थानविशेषणानि च विभावत्वेनेति ।
<pratika>प्रविशेत्यादि ।</pratika> हे राधे, माधवसमीपं प्रविश । इह निकुञ्जे विलस गमनागमना-
दिचेष्टाः कुरु । किंभूते राधे । रतिरभसेन रतिहर्षेण हसितं वदनं यस्याः । एताव-
द्धवस्थानीयम् । तदनुस्यूतं त्वमेवपदमिहेत्यस्य विशेषणम् । किंभूते । मञ्जुतरं मनो-
निकुञ्जनिलयस्य निकुञ्ज एव निलयो निभृतगृहं तस्य द्वारे हरिं निरीक्ष्य दृष्ट्वा । व्रीडावतीं
लज्जावतीमेतस्मै कति निष्ठुराणि वचांसि मयोक्तानि, संप्रति कथं तत्समक्षं यामीति लज्जया
युक्ताम् । कीदृशस्य निकुञ्जनिलयस्य । हारावल्यो हारपङ्कयस्तरलो हारमध्यगमणिः
काञ्चनकाञ्चिदाम सुवर्णखचितमेखला मञ्जीरो नूपुरः कङ्कणं करभूषणमेतेषु खचिता ये
मणयस्तेषां द्युत्या कान्त्या दीपितस्य प्रकाशितस्य । "तरलश्चञ्चले षिङ्गे हारमध्यमणा-
वपि" इति विश्वप्रकाशः ॥ ५ ॥ तदेव गीतेनाह -- <pratika>मञ्जुतरेति ।</pratika> गीतस्यास्य वराडीरागो
मठतालश्च । गीतार्थस्तु -- हे राधे, माधवसमीपं कृष्णान्तिकदेशं प्रविश । इह मञ्जुतर-
कुञ्जतलकेलिसदने मञ्जुतरं यत्कुञ्जतलं निकुञ्जाभ्यन्तरदेशस्तदेव यत्केलिसदनं लीलागृहं
तत्र विलस विलासं कुरु । कीदृशि । रतिरभसेन सुरतोत्साहेन हसितं हास्ययुक्तं
वदनं मुखं यस्यास्तादृशि । प्रविश राधे माधवसमीपमिह विलसेत्युक्तम् ॥ ध्रुवपद-
मनुवर्तमानत्वात् । यद्वा । इह माधवे विलस । कीदृशे माधवे । मञ्जुतरकुञ्जतलं केलि-
सदनं यस्य तादृशे । पुनः कीदृशे । रतिरभसेन हसितं वदनं यस्य तादृशे ।
[^१.] "सखी निजगाद राधाम्" इति पाठः । [^२.] "रागमठतालाभ्यां" "रागाडवतालाभ्यां"
इति पाठौ ।