This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: ११
 
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
 
ब्

व्
रीडावतीमथ संस[^१]खीमियमित्युवाच ॥ ५ ॥

 
<bold>
वराडीरागरू[^२]पकतालाभ्यां गीयते । प्र० ॥ १७ ॥
 
मञ्ज
</bold>
 
मञ्जु
तरकुञ्जतलकेलिसद्ने
 
१४६
 

विलस रतिरभसहसितवदने ॥ १ ॥

प्रविश राधे माधवसमीपमिह ॥ ध्रुवम् ॥
 

 
यस्य द्वारे हरिं निरीक्ष्य । किंभूतां राधाम् । व्रीडावतीम् । कामवतीनामपि युव-

तीनां प्रथम संगमे लज्जा किमपि कामातिशयं विदधाति । किंभूतस्य निलयस्य । हा
-
रावल्यास्रलो मध्यमणिः काञ्चनस्य मेखला दाम च मञ्जीरौ कङ्कणे च तेषु मणयः

तेषां द्युत्या दीपितस्य । वसन्ततिलकावृत्तम् । अतिशयोक्तिरलंकारः ॥ ५ ॥ तदेव

सखीवाक्यं विवृणोति -- <pratika>मञ्जुतरेति ।</pratika> अत्राष्टपद्यामुद्ग्राहापेक्षया ध्रुवस्य बाहुल्यम् ।

तत्रापि च प्रतिपादमन्तिमं खण्डं पदान्तरापेक्षया नवं नवमेवेति बोद्धव्यम् । तत्रापि

राधाविशेषणानि सर्वाण्यनुभावत्वेन बोधव्यानि स्थान विशेषणानि च विभावत्वेनेति ।

<pratika>
प्रविशेत्यादि ।</pratika> हे राधे, माधवसमीपं प्रविश । इह निकुञ्जे विलस गमनागमना-

दिचेष्टाः कुरु । किंभूते राधे । रतिरभसेन रतिहर्षेण हसितं वदनं यस्याः । एताव-

द्धवस्थानीयम् । तदनुस्यूतं त्वमेवपदमिहेत्यस्य विशेषणम् । किंभूते । मञ्जुतरं मनो-
-
 

 
निकुञ्जनिलयस्य निकुञ्ज एव निलयो निभृतगृहं तस्य द्वारे हरिं निरीक्ष्य दृष्ट्वा । ब् व्रीडावतीं

लज्जावतीमेतस्मै कति निष्ठुराणि वचांसि मयोक्तानि, संप्रति कथं तत्समक्षं यामीति लज्जया

युक्ताम् । कीदृशस्य निकुञ्जनिलयस्य । हारावल्यो हारपङ्कयस्तरलो हारमध्यगमणिः

काञ्चनकाञ्चिदाम सुवर्णखचितमेखला मञ्जीरो नूपुरः कङ्कणं करभूषणमेतेषु खचिता ये

मणयस्तेषां द्युत्या कान्त्या दीपितस्य प्रकाशितस्य । '"तरलश्चञ्चले षिङ्गे हारमध्यमणा-

वपि'" इति विश्वप्रकाशः ॥ ५ ॥ तदेव गीतेनाह -- <pratika>मञ्जुतरेति ।</pratika> गीतस्यास्य वराडीरागो

मठतालश्च । गीतार्थस्तु -- हे राधे, माधवसमीपं कृष्णान्तिकदेशं प्रविश । इह मञ्जुतर-

कुञ्जतलकेलिसदने मञ्जुतरं यत्कुञ्जतलं निकुञ्जाभ्यन्तरदेशस्तदेव यत्केलिसदनं लीलागृहं

तत्र विलस विलासं कुरु । कीदृशि । रतिरभसेन सुरतोत्साहेन हसितं हास्ययुक्तं

वदनं मुखं यस्यास्तादृशि । प्रविश राधे माधवसमीप मिह विलसेत्युक्तम् ॥ ध्रुवपद-

मनुवर्तमानत्वात् । यद्वा । इह माधवे विलस । कीदृशे माधवे । मञ्जुतरकुञ्जतलं केलि-

सदनं यस्य तादृशे । पुनः कीदृशे । रतिरभसेन हसितं वदनं यस्य तादृशे ।
 

 
[^
'.] "सखी निजगाद राधाम्'" इति पाठः । [^ '.] "रागमठतालाभ्यां' '" "रागाडवतालाभ्यां'
"
इति पाठौ ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri