This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्ग: ११
 
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
 
ब्रीडावतीमथ संखीमियमित्युवाच ॥ ५ ॥
वराडीरागरूपकतालाभ्यां गीयते । प्र० ॥ १७ ॥
 
मञ्जतरकुञ्जतलकेलिसद्ने
 
१४६
 
विलस रतिरभसहसितवदने ॥ १ ॥
प्रविश राधे माधवसमीपमिह ॥ ध्रुवम् ॥
 
यस्य द्वारे हरिं निरीक्ष्य । किंभूतां राधाम् । व्रीडावतीम् । कामवतीनामपि युव-
तीनां प्रथम संगमे लज्जा किमपि कामातिशयं विदधाति । किंभूतस्य निलयस्य । हा
•रावल्यास्वरलो मध्यमणिः काञ्चनस्य मेखला दाम च मञ्जीरौ कङ्कणे च तेषु मणयः
तेषां द्युत्या दीपितस्य । वसन्ततिलकावृत्तम् । अतिशयोक्तिरलंकारः ॥ ५ ॥ तदेव
सखीवाक्यं विवृणोति–मञ्जुतरेति । अत्राष्टपद्यामुद्राहापेक्षया ध्रुवस्य बाहुल्यम् ।
तत्रापि च प्रतिपादमन्तिमं खण्डं पदान्तरापेक्षया नवं नवमेवेति बोद्धव्यम् । तत्रापि
राधाविशेषणानि सर्वाण्यनुभावत्वेन बोधव्यानि स्थान विशेषणानि च विभावत्वेनेति ।
प्रविशेत्यादि । हे राधे, माधवसमीपं प्रविश । इह निकुञ्जे विलस गमनागमना-
दिचेष्टाः कुरु । किंभूते राधे । रतिरभसेन रतिहर्षेण हसितं वदनं यस्याः । एताव-
द्धवस्थानीयम् । तदनुस्यूतं त्वमेवपदमिहेत्यस्य विशेषणम् । किंभूते । मञ्जुतरं मनो-
-
 
निकुअनिलयस्य निकुञ्ज एव निलयो निभृतगृहं तस्य द्वारे हरिं निरीक्ष्य दृष्ट्वा । ब्रीडावतीं
लज्जावतीमेतस्मै कति निष्ठुराणि वचांसि मयोक्तानि, संप्रति कथं तत्समक्षं यामीति लज्जया
युक्ताम् । कीदृशस्य निकुञ्जनिलयस्य । हारावल्यो हारपङ्कयस्तरलो हारमध्यगमणिः
काञ्चनकाञ्चिदाम सुवर्णखचितमेखला मञ्जीरो नूपुरः कङ्कणं करभूषणमेतेषु खचिता ये
मणयस्तेषां त्या कान्त्या दीपितस्य प्रकाशितस्य । 'तरलश्चञ्चले षिङ्गे हारमध्यमणा-
वपि' इति विश्वप्रकाशः ॥ ५ ॥ तदेव गीतेनाह – मञ्जुतरेति । गीतस्यास्य वराडीरागो
मठतालश्च । गीतार्थस्तु – हे राधे, माधवसमीपं कृष्णान्तिकदेशं प्रविश । इह मञ्जतर-
कुञ्जतलकेलिसदने मञ्जुतरं यत्कुञ्जतलं निकुञ्जभ्यन्तरदेशस्तदेव यत्केलिसदनं लीलागृहं
तत्र विलस विलासं कुरु । कीदृशि । रतिरभसेन सुरतोत्साहेन हसितं हास्ययुक्तं
वदनं मुखं यस्यास्तादृशि । प्रविश राधे माधवसमीप मिह विलसेत्युक्तम् ॥ ध्रुवपद-
मनुवर्तमानत्वात् । यद्वा । इह माधवे विलस । कीदृशे माधवे । मञ्जतरकुञ्जतलं केलि-
सदनं यस्य तादृशे । पुनः कीदृशे । रतिरभसेन हसितं वदनं यस्य तादृशे ।
 
१ 'सखी निजगाद राधाम्' इति पाठः । २ 'रागमठतालाभ्यां' 'रागाडवतालाभ्यां'
इति पाठौ ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri