This page has been fully proofread once and needs a second look.

सर्गः ११] रसिकप्रिया- रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
काश्मीरगौरवपुषामभिसारिकाणा-

माबद्धरेखमभितो रुचिमञ्जरीभिः ।

एतत्तमालदुलनीलतमं तमिस्रं
 
तत्प्रेम

तत्प्रेम
हेमनिकषोपलतां तनोति ॥ ४ ॥

 
हारावलीतरलकाञ्चनकाञ्चिदाम-

केयूरकङ्कणमणिद्युतिदीपितस्य ।
 

 
त्यमावहति । यतो मायाविनो माययैव साध्याः । अत्र च क्रमेण तमसो वृद्धिर्ज्ञेया ।

पूर्वं प्रादुर्भावेऽक्ष्णोरञ्जनम् । किंचिद्वृद्धे कर्णाभरणाच्छादनम् । तत एव प्रवृद्धे शिरो-

मुकुटवृत्ति । ईषदपरिसमाप्तेः (?) । कुचयोर्हारादिलोपः । क्रमेण प्रवृद्धं सत्सर्वशरीरं

व्याप्य वर्तत इति क्रमवृद्धिर्दर्शिता । अत्र धूर्तप्ग्रहणेन ता अपश्यन्त्यो भवतीं न कस्य-

चिदमेग्रे कथयिष्यन्तीति निःशङ्कं व्रज । शार्दूलविक्रीडितं वृत्तम् । यथासंख्यमलंकारः

॥ ३ ॥ इदानीं तमस्यपि त्वामेव प्रतीक्षत इत्याह -- <pratika>काश्मीरेति ।</pratika> हे सखि, एत-

त्तमिस्रं तस्य श्रीकृष्णस्य त्वयि यत्प्रेम तदेव हेम तन्निकषोपलतां तनोति । तम-

स्यपि बह्वीनामभिसारिकाणां प्राप्त्यवसरेऽपि त्वय्येव तस्य प्रेमेति निकषोपलहे-

मपरीक्षाश्मसाम्यम् । किंभूतं तमिस्रम् । अभितो रुचिमञ्जरीभिः कुङ्कुमगौरवपुषां

स्वैरिणीनामाबद्धा रेखा आभोगो विस्तारो येन । किंभूतं तमिस्रम् । तमालदलनी-

लतमम् । एतावता तमसोऽतीव प्रवृद्धावभिसरेति प्रेरणम् । वसन्ततिलका

वृत्तम् । अत्रोपमालंकारः ॥ ४ ॥ इदानीं भावान्तरेण तं पुष्णाति - - <pratika>हाराव-

लीति ।</pratika> इयं दूती राधां प्रति वक्ष्यमाणमुवाच । किं कृत्वा । निकुञ्ज निल-
१४५
 

 
कस्तूरिकापत्रकं मृगमदरचनां निक्षिपत् । कीदृशं ध्वान्तम् । नीलनिचोलचारु नीलनि-

चोलवत्कञ्चुकवच्चारु मनोहरम् । तथा च तवाभिसारयोग्याभरणानि तम एवार्पयिष्य-

तीति किमलंकरणे विलम्बेनेति भावः । अत्र स्त्रीणामलंकरणादिरचना नपुंसकादीना-

मेवेति नपुंसकनिर्देशेन ध्वनितम् । '"कालस्कन्धस्तमाल:लः स्यात्तापिच्छः'" इत्यमरः ।
'

"
स्याद्गुच्छः स्तबके त्वन्धे हारभेदकलापयोः'" इति विश्वः ॥ ३ ॥ किंच संप्रति मणिसु-

वर्णाभरणं नोपादेयमित्यत आह -- <pratika>काश्मीरेति ।</pratika> काश्मीरवत्कुङ्कुमवद्गौरं वपुः शरीरं

यासां तादृशामभिसारपराणां नायिकानामभित उभयतो मणिमञ्जरीभिर्मणिपरम्पराभि-

राबद्धा रेखा येन तादृशमेतत्तमालदलनीलतमं तमालदलवत्तमालपल्लववदतिशयेन नीलं

तमिस्रमन्धकारं तत्प्रेमहेमनिकषोपलतां तनोति विस्तारयति । संकेतभूमिं व्रजन्तीनामभि
-
सारिकाणां ताटङ्ककङ्कणमञ्जीरादिखचितमणिदीप्तिभिरुभयपार्श्वे उद्द्योते सति रेखाकारतया

लक्ष्यमाणातिगौरतराङ्गकान्तिरन्धकार रूपकषपट्टिकायां तत्प्रेम सुवर्णरेखेव भातीति भावः ।

अथ चैतादृश्यपि गाढान्धकारे कान्तारे सर्वं मुक्त्वैकान्ताभिसारप्रस्थानेन प्रेम्णः शुद्धिं

परीक्षत इति ध्वनिः । '"पाषाण प्रस्तरग्रावोपलाश्मानः शिला दृषत्'" इत्यमरः ॥ ४ ॥

<pratika>
हारावलीति ।</pratika> अथानन्तरमियं दूती सखीं राधामिति वक्ष्यमाणमुवाच । कीदृशीं सखीम् ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri