This page has not been fully proofread.

सर्गः ११] रसिकप्रिया- रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
काश्मीरगौरवपुषामभिसारिकाणा-
माबद्धरेखमभितो रुचिमञ्जरीभिः ।
एतत्तमालदुलनीलतमं तमिस्रं
 
तत्प्रेम हेमनिकषोपलतां तनोति ॥ ४ ॥
हारावलीतरलकाञ्चनकाञ्चिदाम-
केयूरकङ्कणमणिद्युतिदीपितस्य ।
 
त्यमावहति । यतो मायाविनो माययैव साध्याः । अत्र च क्रमेण तमसो वृद्धिर्ज्ञेया ।
पूर्वं प्रादुर्भावेऽक्ष्णोरञ्जनम् । किंचिद्धे कर्णाभरणाच्छादनम् । तत एव प्रवृद्धे शिरो-
मुकुटवृत्ति । ईषदपरिसमाप्तेः (?) । कुचयोर्हारादिलोपः । क्रमेण प्रवृद्धं सत्सर्वशरीरं
व्याप्य वर्तत इति क्रमवृद्धिर्दर्शिता । अत्र धूर्तप्रहणेन ता अपश्यन्त्यो भवतीं न कस्य-
चिदमे कथयिष्यन्तीति निःशङ्कं व्रज । शार्दूलविक्रीडितं वृत्तम् । यथासंख्यमलंकारः
॥ ३ ॥ इदानीं तमस्यपि त्वामेव प्रतीक्षत इत्याह – काश्मीरेति । हे सखि, एत-
त्तमिस्रं तस्य श्रीकृष्णस्य त्वयि यत्प्रेम तदेव हेम तन्निकषोपलतां तनोति । तम-
स्यपि बह्वीनामभिसारिकाणां प्रात्यवसरेऽपि त्वय्येव तस्य प्रेमेति निकषोपलहे-
मपरीक्षाश्मसाम्यम् । किंभूतं तमिस्रम् । अभितो रुचिमञ्जरीभिः कुङ्कुमगौरवपुषां
स्वैरिणीनामाबद्धा रेखा आभोगो विस्तारो येन । किंभूतं तमिस्रम् । तमालदलनी-
लतमम् । एतावता तमसोऽतीव प्रवृद्धावभिसरेति प्रेरणम् । वसन्ततिलका
वृत्तम् । अत्रोपमालंकारः ॥ ४ ॥ इदानीं भावान्तरेण तं पुष्णाति - हाराव-
लीति । इयं दूती राधां प्रति वक्ष्यमाणमुवाच । किं कृत्वा । निकुञ्ज निल-
१४५
 
कस्तूरिकापत्रकं मृगमदरचनां निक्षिपत् । कीदृशं ध्वान्तम् । नीलनिचोलचारु नीलनि-
चोलवत्कञ्चुकवच्चारु मनोहरम् । तथा च तवाभिसारयोग्याभरणानि तम एवार्पयिष्य-
तीति किमलंकरणे विलम्बेनेति भावः । अत्र स्त्रीणामलंकरणादिरचना नपुंसकादीना-
मेवेति नपुंसकनिर्देशेन ध्वनितम् । 'कालस्कन्धस्तमाल: स्यात्तापिच्छः' इत्यमरः ।
'स्याद्गुच्छः स्तबके त्वन्धे हारभेदकलापयोः' इति विश्वः ॥ ३ ॥ किंच संप्रति मणिसु-
वर्णाभरणं नोपादेयमित्यत आह – काश्मीरेति । काश्मीरवत्कुङ्कुमवद्गौरं वपुः शरीरं
यासां तादृशामभिसारपराणां नायिकानामभित उभयतो मणिमञ्जरीभिर्मणिपरम्पराभि-
राबद्धा रेखा येन तादृशमेतत्तमालदलनीलतमं तमालदलवत्तमालपल्लववदतिशयेन नीलं
तमिस्रमन्धकारं तत्प्रेमहेमनिकषोपलतां तनोति विस्तारयति । संकेतभूमिं व्रजन्तीनामभि•
सारिकाणां ताटङ्ककङ्कणमञ्जीरादिखचितमणिदीप्तिभिरुभयपार्श्वे उद्द्योते सति रेखाकारतया
लक्ष्यमाणातिगौरतराङ्गकान्तिरन्धकार रूपकषपट्टिकायां तत्प्रेम सुवर्णरेखेव भातीति भावः ।
अथ चैतादृश्यपि गाढान्धकारे कान्तारे सर्व मुक्त्वैकान्ताभिसारप्रस्थानेन प्रेम्णः शुद्धिं
परीक्षत इति ध्वनिः । 'पाषाण प्रस्तरग्रावोपलाइमानः शिला दृषत्' इत्यमरः ॥ ४ ॥
हारावलीति । अथानन्तरमियं दूती सखीं राधामिति वक्ष्यमाणमुवाच । कीदृशीं सखीम् ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri