This page has been fully proofread once and needs a second look.

स त्वां पश्यति वेप[^४४
 
गीतगोविन्दुकाव्यम्
 
[ सर्ग: ११
 
स त्वां पश्यति वेप
]ते पुलकयत्यानन्दति स्विद्यति
१)

प्रत्युद्गच्छति मूर्च्छति स्थिरतमः पुञ्जे निकुञ्जे प्रियः ॥ २ ॥

 
अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं

मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।

धूर्तानामभिसारसंभ्र[^२]मजुषां विष्वङ्निकुञ्जे सखि
 

ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ३ ॥
 

 
कुलो भवति दूरं च पश्यति । एतावता हि सात्विकभावौ स्तम्भवैवर्ण्ये संजातौ भवत

इति सूचितम् । चिन्तया स्तम्भं दूरदर्शनेन वैवर्ण्यमाप्नोति । दृष्ट्वा च स्मरकथां

वक्ष्यतीति वेपते पुलकयति च । एवं द्वावपरौ सात्त्विकौ वेपथू रोमाञ्चश्चेति । कथाः

कृत्वा प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यतीत्यानन्दति आनन्दाश्रु मुञ्चति स्विद्यति च ।

एवमश्रुस्खेवेदावुकौक्तौ । आलिङ्ग्य च नानारतोपचारै रंस्यते । चिन्तया आह्वानाशक्तत्वे

प्रत्युद्गच्छति । त्वदलामेभे मूर्च्छति च । एवं स्वरभङ्गप्रलयौ दर्शित । एवं स कृष्ण-

स्त्वदभिकाङ्क्षयाष्टावपि सात्विकान्भावाननुभवन्नास्ते । प्रत्यज्ञाङ्गालिङ्गनेन स्थितालिङ्गनं

वृक्षादिरूढमुक्तं भवति । तल्लक्षणं यथा-'
-'
-- "रमणचरणमेकेनाङ्क्षिघ्रिणाक्रम्य खिन्नं श्वसित-

मपरपादेनाश्रयन्ती तदूरुम् । निजमथ भुजमेनं प्राञ्चयन्ती तदंसं तरुमिव कमितारं चु-

म्बनार्थाधिरोदुढुम् ॥ यदभिलषति नारी तश्च्च वृक्षाधिरूढम् ॥'" शार्दूलवृत्तम् । दीपकमलं-

कारः ॥ २ ॥ इदानीमभिसारिका समयमाह - - <pratika>अक्ष्णोरिति ।</pratika> हे सखि, विष्वक् चतु-

र्
दिक्षु नीलप्रच्छदपटसदृग्ध्वान्तं सुदृशः प्रत्यङ्गमालिङ्गति । नीलप्रच्छदपटवदाच्छा
द्य
अदृश्यां करोतीत्यर्थः । किं कुर्वन् । धूर्तानां मायाविनामभिसारे संभ्रमं वेगं भज-

न्तीनामुत्कोचमिव । एतदेतत्कुर्वंस्तदाह
-- अक्ष्णोरञ्जनं निक्षिपत् । अपि च कुचयोः

कस्तूरिकापत्रावलिरचनाविशेषमिव निक्षिपत् । अत्र धूर्ताग्रहणेन निक्षेप औचि-

 
प्रीतियुक्तापि मया सह रंस्यते केलं करिष्यति इति चिन्ताकुल:लः सन्कृष्णः स्थिर-

तमः पुञ्जे स्थिरान्धकारसमूहे निकुञ्जे त्वां पश्यति ध्यानदृष्ट्या । किमियं परुषं वदिष्यति

चेति भिया साध्वसेन वेपते कम्पते । पुलकयति, अङ्गानीत्यर्थात् । ध्यानेनैव तवा-

लिङ्गनं परिकल्प्य साध्वसेन रोमाञ्चयुक्तो भवतीति भावः । पश्चाच्यानेनैव त्वत्सुरतकेलिं
परिकल्प्यानन्दयुक्तो भवतीति । ततो
द्ध्यानेनैव त्वत्सुरतकेलिं
परिकल्प्यानन्दयुक्तो भवतीति । ततो ध्यानेनैव
सुरतसुखं परिकल्प्य स्विद्यति प्रस्वेद-

युक्तो भवति । पश्चात्केलिं कृत्वोत्थाय गन्तुं प्रवृत्तायां त्वयि प्रत्युद्गच्छति प्रत्युत्थानं

करोति । पश्चाद्ध्यानविच्छेदे त्वामदृष्ट्वा मूर्च्छाछां प्राप्नोति ॥ २ ॥ नन्वलंकरणरचनां विधाय

गन्तव्यमित्यत आह -- <pratika>अक्ष्णोरिति ।</pratika> अभिसारसाहसकृतामभिसाररूपं साहसं कुर्वन्तीत्य -
-
भिसारसाहसकृतस्ता सामत एव धूर्तानां शठानां सुदृशां नायिकानां ध्वान्तं तमो

निकुञ्जे विष्वक्सर्वतः प्रत्यङ्गमङ्गमङ्गं प्रति आश्लिष्यति । तदेव विशेषणैराह -- <pratika>अक्ष्णो-

रिति ।</pratika> किं कुर्वत्तमः । अक्ष्णोर्नयनयोरञ्जनं कज्जलं निक्षिपदर्पयत् । कुचयोः स्तनयोः
 
-
 
-
 

 
[^
'.] "कम्पते'" इति पाठः । [^ '.] "सारसाहसकृतां' '" "सारसत्वरहृदां'" इति च पाठौ ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri