This page has not been fully proofread.

१४४
 
गीतगोविन्दुकाव्यम्
 
[ सर्ग: ११
 
स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति
१) प्रत्युद्गच्छति मूर्च्छति स्थिरतमः पुञ्जे निकुञ्जे प्रियः ॥ २ ॥
अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं
मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।
धूर्तानामभिसारसंभ्रमजुषां विष्वनिकुञ्जे सखि
 
ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ३ ॥
 
कुलो भवति दूरं च पश्यति । एतावता हि सात्विकभावौ स्तम्भवैवर्ण्य संजातौ भवत
इति सूचितम् । चिन्तया स्तम्भं दूरदर्शनेन वैवर्ण्यमाप्नोति । दृष्ट्वा च स्मरकथां
वक्ष्यतीति वेपते पुलकयति च । एवं द्वावपरौ सात्त्विकौ वेपथू रोमाञ्चश्चेति । कथाः
कृत्वा प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यतीत्यानन्दति आनन्दाश्रु मुञ्चति स्विद्यति च ।
एवमश्रुस्खेदावुकौ । आलिङ्ग्य च नानारतोपचारै रंस्यते । चिन्तया आह्वानाशक्तत्वे
प्रत्युद्गच्छति । वदलामे मूर्च्छति च । एवं स्वरभङ्गप्रलयौ दर्शित । एवं स कृष्ण-
स्त्वदभिकाष्टावपि सात्विकान्भावाननुभवन्नास्ते । प्रत्यज्ञालिङ्गनेन स्थितालिङ्गनं
वृक्षादिरूढमुक्तं भवति । तल्लक्षणं यथा-'
-'रमणचरणमेकेनाङ्क्षिणाक्रम्य खिन्नं श्वसित-
मपरपादेनाश्रयन्ती तदूरुम् । निजमथ भुजमेनं प्राञ्चयन्ती तदंसं तरुमिव कमितारं चु-
म्बनार्थाधिरोदुम् ॥ यदभिलषति नारी तश्च वृक्षाधिरूढम् ॥' शार्दूलवृत्तम् । दीपकमलं-
कारः ॥ २ ॥ इदानीमभिसारिका समयमाह - अक्षणोरिति । हे सखि, विष्वक् चतु-
दिक्षु नीलप्रच्छदपटसदृग्ध्वान्तं सुदृशः प्रत्यङ्गमालिङ्गति । नीलप्रच्छदपटवदाच्छाय
अदृश्यां करोतीत्यर्थः । किं कुर्वन् । धूर्तानां मायाविनामभिसारे संभ्रमं वेगं भज-
न्तीनामुत्कोचमिव । एतदेतत्कुर्वस्तदाह
— अक्षणोरञ्जनं निक्षिपत् । अपि च कुचयोः
कस्तूरिकापत्रावलिरचनाविशेषमिव निक्षिपत् । अत्र धूर्ताग्रहणेन निक्षेप औचि-
प्रीतियुक्तापि मया सह रंस्यते केलं करिष्यति इति चिन्ताकुल: सन्कृष्णः स्थिर-
तमः पुजे स्थिरान्धकारसमूहे निकुञ्जे त्वां पश्यति ध्यानदृष्टया । किमियं परुषं वदिष्यति
चेति भिया साध्वसेन वेपते कम्पते । पुलकयति, अङ्गानीत्यर्थात् । ध्यानेनैव तवा-
लिङ्गनं परिकल्प्य साध्वसेन रोमाञ्चयुक्तो भवतीति भावः । पश्चाच्यानेनैव त्वत्सुरतकेलिं
परिकल्प्यानन्दयुक्तो भवतीति । ततो ध्यानेनैव सुरतसुखं परिकल्प्य स्विद्यति प्रस्वेद-
युक्तो भवति । पश्चात्केलिं कृत्वोत्थाय गन्तुं प्रवृत्तायां त्वयि प्रत्युद्गच्छति प्रत्युत्थानं
करोति । पश्चाद्ध्यानविच्छेदे त्वामदृष्ट्वा मूर्च्छा प्राप्नोति ॥ २ ॥ नन्वलंकरणरचनां विधाय
गन्तव्यमित्यत आह— अक्ष्णोरिति । अभिसारसाहसकृतामभिसाररूपं साहसं कुर्वन्तीत्य -
भिसारसाहसकृतस्ता सामत एव धूर्तानां शठानां सुदृशां नायिकानां ध्वान्तं तमो
निकुञ्जे विष्वक्सर्वतः प्रत्यङ्गमङ्गमङ्गं प्रति आश्लिष्यति । तदेव विशेषणैराह — अक्षणो-
रिति । किं कुर्वत्तमः । अक्ष्णोर्नयनयोरञ्जनं कज्जलं निक्षिपदर्पयत् । कुचयोः स्तनयोः
 
-
 
-
 
१ 'कम्पते' इति पाठः । २ 'सारसाहसकृतां' 'सारसत्वरहृदां' इति च पाठौ ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri