This page has been fully proofread once and needs a second look.

सर्ग: ११ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
श्रीजयदेव भणितमधरीकृतहारमुदासितवा[^१]मम् ।

हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ मुग्धे० ॥८॥

 
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः
 

प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।
 
१४३
 

 
<pratika>
श्रीजयदेवेति ।</pratika> इदं श्रीजयदेवभणितं हरावारोपितमनसाम विराममविच्छेदं

कण्ठतटीमधितिष्ठति । अधरीकृतो हारो मुक्तादिग्रथितो येन । पक्षेऽधरीकृतो

हारः शुद्धं वचनं येन । पुनः किंभूतम् । उदासितवामम् । उदासिता वामा स्त्री

येन । अथवा उदासितं हरिभक्तिप्रतीपं वचनं येन । वा उदासितं निराकृतमन्यदपि

सुन्दरं येन इति । हारनारीसुन्दरादीनां परिहारेणेदमेवैकं कण्ठे धारणीयमित्यर्थः ।

तथा च सङ्गीतराजे — '-- "आदितालः प्रथमतः प्रणिमण्ठस्ततः परम् । चतुर्मात्राह्म-

ण्ठश्च तुर्यः स्यादड्डतालकः ॥ तालो वर्णयतिः पश्चान्नवमात्रिकमण्ठकः । निःसारुश्च

तथा झम्पा द्रुतमण्ठश्च रूपकः ॥ प्रतितालस्त्रिपुटक एकतालीवि संज्ञया । त्रयोदश क्रमा-

त्
तालाः प्रतितालं पदानि च ॥ यथा शोभालप्तियुञ्जि तावन्त्येव ततः परम् । काहली

तुण्डकिन्यौ च भुक्ता च शृङ्गशङ्खकौ ॥ पटहश्च हुडुक्कं च मुरजः करटापि च । रुण्डा

च डमरूढक्का पाटा एतत्समुद्भवाः ॥ निःसारौ पटहो ढक्का मर्दलस्त्रिवली तथा ।

करटेति तथैतस्यां प्रधानाक्षरयोजना ॥ एकताल्या ढक्कखी च त्रिवली दुन्दुभिस्तथा ।

घटश्चतुर्वर्ण्यकः स्यादधिका पाठसन्ततिः ॥ प्रतितालं प्रयोगोऽपि रागो नन्दो निगद्यते

शृङ्गारो विप्रलम्भाख्यो रस उत्तमनायकः ॥ दूतीसंवादकथनं नायिकायामिहेष्यते

एतत्स्याल्लक्षणं यच्च तालराजिरसः स्मृतः ॥ प्रबन्धः कुम्भभूपेन हरिप्रवणचेतसा ॥

इति श्रीहरितालराजिजलधरविलसितनामा विंशतितमः प्रबन्धः ॥ ८ ॥ इदानीं

तच्चेष्टाकथनव्याजेन गन्तुं व्याकुलयति - - <pratika>सा मामिति ।</pratika> हे सखि, प्रियः कृष्णो

निकुञ्जे भवत्या अपेक्षयेत्येवं कुर्वन्नास्ते । किंभूते निकुञ्जे । स्थिरतमः पुञ्जे

स्थिरान्धकारये । इतीति किम् । सा प्रिया समागत्य मां द्रक्ष्यतीति चिन्ता-

 
इति ध्वनितम् ॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> इदं श्रीजयदेवेन भणितं हरिविनिहितमनसां

रौ विनिहितं तत्परं मनो येषां तादृशानामविराममनवरतं कण्ठतटीमधितिष्ठतु कण्ठदेशे

वसत्वित्यर्थः । कीदृशम् । अधरीकृतः स्वगुणैहींर्हीनीकृतो हारो येन तादृशम् । पुनः

कीदृशम् । उदासिता स्वगुणैस्तिरस्कृता रामा येन तादृशम् । यद्यपि हारस्य रामाणां

च कण्ठदेशस्थित्या शोभाप्रदत्वं संभवति, तथापि तयो रागिणामेव शोभाप्रदत्वं न

मुमुक्षूणाम् । तत्रापि तारुण्य एव न तु सर्वदा । जयदेवभणितं तु कृष्णकथात्वेन सर्वव
-
यस्सु शोभा प्रदमिति हारापेक्षया नायिकापेक्षया चेदमधिकमिति भावः । कण्ठतटीमित्यत्र
'

"
अधिशीङ्स्थासां कर्म'" इत्यधिकरणे द्वितीया ॥ ८ ॥ इदानीं हरेरुत्कण्ठा धिक्यमाह - - <pratika>सा

मामिति ।</pratika> हे सखि, राधा आगत्य मां द्रक्ष्यति ईक्षिष्यते । दृष्ट्वापि मां स्मरकथां

वक्ष्यति कथयिष्यति । स्मरकथामुक्त्वापि सा प्रत्यङ्गावयवं ममालिङ्गनैः प्रीतिं यास्यति ।
 

 
[^
'.] "सितरामम्'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri