This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: ११
 
अधिगतम खिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।

चण्डि रणितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ मुग्धे० ६

 
स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।
चल वलयक

चल वलयक्व
णितैरवबोधय हरिमपि निग[^१]दितशीलम् ॥ मुग्धे० ॥७॥
 
१४२
 

 
अपि च । <pratika> अधिगतमिति ।</pratika> हे चण्डि, सखीसकाशाल्लज्जारहितं यथा स्यात्तथा

अभिसर । अर्थात् कृष्णवसतिम् । यतोऽखिलसखीभिरिदमधिगतं ज्ञातम् । इद-

मिति किम् । तव वपुरतीव रतिरणाय विहितसामग्रीकं वर्तते इति सखीनामग्रे

वपुषैव निवेदितम् । अतो लज्जां मा कुरु । किंभूतं वपुः । रसितो रशनावलिरेव डि-

ण्डिमः पणववाद्यविशेषो येन । अपि च किंभूतम् । सरसं सरागम् । अत एव रणोद्य-

तायाश्चण्डीति विशेषणमुचितम् ॥ ६ ॥ अपि च । <pratika>स्मरशरेति ।</pratika> हे सखि, करेण

सखीमवलम्ब्य सलीलं चल । अपिश्चार्थे । च पुनः । निगदितशीलं निगदितं तव

प्रतीक्षया सुभटं व्याख्यातं शीलं यस्य । अथवा पूर्वपददोषत्वेन सखीभिर्ज्ञानप
रं
निगदितं च तच्छीलं च भवत्याश्चरित्रं तत् । हरिमपि बोधयेत्यपिशब्दार्थः ।

किंभूतेन । स्मरशरसुभगनखेन स्मरशरवत्पुष्पवत्सुभगा नखा यथा ॥ ७ ॥ अपि च ।
 

 
सति बहिर्जलधारानि:निःसरणसंभवात् । पुनः कीदृशम् । सूचितः हरे:रेः कृष्णस्य परिरम्भ

आलिङ्गनं येन तम् । नारीणां स्तनकम्पः प्रियं सूचयतीति शाकुनिकाः तदुक्तम्
'

"
नित्यं नार्याः स्तने कम्पः प्रियसंगमसूचकः'" इति । पूर्णकलशत्वेन स्तनरूपणमपि

यात्रायां पूर्णकलशदर्शनं प्रियसूचनाय ॥ ५ ॥ ननु सखीजनेषु पश्यत्सु, कथं मया

गन्तव्यमित्यत आह - - <pratika>अधिगतमिति । </pratika>इदं तव वपुः सखीभिरतिशयेन रतिप्रसङ्गाय

सुरतप्रसङ्गाय सज्जं कृतालंकरणादिकृत्य विधानमधिगतं ज्ञातम् । तथा च सखीभिर्दृष्टमे
-
वाधुना किं विलम्बेनेति भावः । यद्वा सखीभिरिदं तव वपुर्बहुधा रतिरणे सम्यगधिगतं

ज्ञातम् । तथा च तासां का लज्जेति भावः । अतो हे चण्डि कोपने, रसितः शब्दाय-

मानः कृतो रशनावलिः क्षुद्रघण्टिकावलिरेव डिण्डिमो वाद्यविशेषो यत्रैवं यथा स्यादे-

वमभिसर कृष्णसंकेतभूमिमुपैहि । अन्यत्रापि रणे डिण्डिमस्ताड्यत एवेति ध्वनिः ।

पुनः कथं यथा स्यात् । सरसमलज्जम् । रसः शृङ्गाररसस्तत्सहितं लज्जारहितं च यथा

स्यादेवम् ॥ ६ ॥ <pratika>स्मरेति ।</pratika> करेण सखीमवलम्ब्य सलीलं लीलासहितं यथा स्यादेवं

चल गच्छ । कीदृशेन करेण । स्मरस्य कामस्य ये शरास्तद्वत्सुभगा:गाः सुन्दरा नखा

यस्मिंस्तादृशेन । अन्यस्मिन्नपि रणे शस्त्रास्त्राणि भवन्ति । रतिरणे तु त्वन्नखा एव स्मरस्य
 

 

शस्त्राणीति भावः । अथ वलयक्वणितैः कङ्कणशब्दैर्हरिमपि निजगतिशीलं स्वीयगमन-

स्वरूपमवबोधय शाज्ञापय । अन्यत्र समीचीनो योध:धः प्रतिभटमवहितं कृत्वैव युध्यत
 

 
[^
'.] "निजगतिशीलम्'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri