2022-10-18 04:14:22 by ambuda-bot
This page has not been fully proofread.
गीतगोविन्दकाव्यम्
[ सर्ग: ११
अधिगतम खिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
चण्डि रणितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ मुग्धे० ६
स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।
चल वलयकणितैरवबोधय हरिमपि निगदितशीलम् ॥ मुग्धे० ॥७॥
१४२
अपि च । अधिगतमिति । हे चण्डि, सखीसकाशालज्जारहितं यथा स्यात्तथा
अभिसर । अर्थात् कृष्णवसतिम् । यतोऽखिलसखीभिरिदमधिगतं ज्ञातम् । इद-
मिति किम् । तव वपुरतीव रतिरणाय विहितसामग्रीकं वर्तते इति सखीनामग्रे
वपुषैव निवेदितम् । अतो लज्जां मा कुरु । किंभूतं वपुः । रसितो रशनावलिरेव डि-
ण्डिमः पणववाद्यविशेषो येन । अपि च किंभूतम् । सरसं सरागम् । अत एव रणोद्य-
तायाश्चण्डीति विशेषणमुचितम् ॥ ६ ॥ अपि च । स्मरशरेति । हे सखि, करेण
सखीमवलम्ब्य सलीलं चल । अपिश्चार्थे । च पुनः । निगदितशीलं निगदितं तव
प्रतीक्षया सुभटं व्याख्यातं शीलं यस्य । अथवा पूर्वपददोषत्वेन सखीभिर्ज्ञानपर
निगदितं च तच्छीलं च भवत्याश्चरित्रं तत् । हरिमपि बोधयेत्यपिशब्दार्थः ।
किंभूतेन । स्मरशरसुभगनखेन स्मरशरवत्पुष्पवत्सुभगा नखा यथा ॥ ७ ॥ अपि च ।
सति बहिर्जलधारानि:सरणसंभवात् । पुनः कीदृशम् । सूचितः हरे: कृष्णस्य परिरम्भ
आलिङ्गनं येन तम् । नारीणां स्तनकम्पः प्रियं सूचयतीति शाकुनिकाः तदुक्तम्
' नित्यं नार्याः स्तने कम्पः प्रियसंगमसूचकः' इति । पूर्णकलशत्वेन स्तनरूपणमपि
यात्रायां पूर्णकलशदर्शनं प्रियसूचनाय ॥ ५ ॥ ननु सखीजनेषु पश्यत्सु, कथं मया
गन्तव्यमित्यत आह - अधिगतमिति । इदं तव वपुः सखीभिरतिशयेन रतिप्रसङ्गाय
सुरतप्रसङ्गाय सज्जं कृतालंकरणादिकृत्य विधानमधिगतं ज्ञातम् । तथा च सखीभिर्दृष्टमे•
वाधुना किं विलम्बेनेति भावः । यद्वा सखीभिरिदं तव वपुर्बहुधा रतिरणे सम्यगधिगतं
ज्ञातम् । तथा च तासां का लज्जेति भावः । अतो हे चण्डि कोपने, रसितः शब्दाय-
मानः कृतो रशनावलिः क्षुद्रघण्टिकावलिरेव डिण्डिमो वाद्यविशेषो यत्रैवं यथा स्यादे-
वमभिसर कृष्णसंकेतभूमिमुपैहि । अन्यत्रापि रणे डिण्डिमस्ताड्यत एवेति ध्वनिः ।
पुनः कथं यथा स्यात् । सरसमलज्जम् । रसः शृङ्गाररसस्तत्सहितं लज्जारहितं च यथा
स्यादेवम् ॥ ६ ॥ स्मरेति । करेण सखीमवलम्ब्य सलीलं लीलासहितं यथा स्यादेवं
चल गच्छ । कीदृशेन करेण । स्मरस्य कामस्य ये शरास्तद्वत्सुभगा: सुन्दरा नखा
यस्मिंस्तादृशेन । अन्यस्मिन्नपि रणे शस्त्रास्त्राणि भवन्ति । रतिरणे तु त्वन्नखा एव स्मरस्य
।
शस्त्राणीति भावः । अथ वलयकणितैः कङ्कणशब्दैर्हरिमपि निजगतिशीलं स्वीयगमन-
स्वरूपमवबोधय शापय । अन्यत्र समीचीनो योध: प्रतिभटमवहितं कृत्वैव युध्यत
१ 'निजगतिशीलम्' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri