This page has been fully proofread once and needs a second look.

सर्ग: ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
अनिलतरलकिसलयनिकरेण
 
करेण लतानिकुरम्बम् ।
 

प्रेरणमिव करभोरु करोति गतिं प्रति मुञ्च विलम्बम् ॥ मुग्धे० ४

 
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
 

पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ मुग्धे० ॥ ५ ॥
 
१४१
 

 
शासनबन्दिनीति तेषां विभावत्वमुक्तम् ॥ ३ ॥ अपि च । <pratika>अनिलेति । </pratika>हे कर-

भोरु करभवदूरू यस्याः । '"मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।'" लतानिकुर-

म्बं लतासमूहः । अनिलतरलकिसलयनिकरेणेव करेण । गतिं प्रति प्रेरणमिव

करोति । अतो विलम्बं मुञ्च । यत्र अचेतना अपि चेतनवत्प्रतिबोधयन्ति तत्रेष्ट-

सिद्धिरवश्यं भाविनी । अत्र करसान्निध्याल्लताशब्देन सख्यः त्वां त्वरयन्तीति द्यो-

त्यते ॥ ४ ॥ अपि च । <pratika>स्फुरितमिति । </pratika>हे सखि, अमुं कुचकुम्भं पृच्छ । प्रिय-

करस्पर्शलालसकुचकुम्भचेष्टां ज्ञातुमिच्छां कुरु । भाविप्रियावेदकः कुचकलशोऽपि

त्वां प्रेरयतीत्यर्थः । किंभूतं कुचकुम्भम् । स्फुरितम् । कुचस्फुरणं प्रियसंगममावेदयती ति
ति
सामुद्रिकज्ञाः । कस्मादिव । कामोर्मिवशादिव । किंभूतम् । सूचितः कथितो हरेः परि-

रम्भो येन । अपि किंभूतम् । मनोहरो हार एव विमलजलधारा यत्र । शकुनकलशेऽपि

तरङ्गवशात्सूचितप्रियप्राप्तिर्भवति । विमलजलधारोऽपि, खण्डश्लेषालंकारः ॥ ५ ॥
 

 

 
सतीत्यर्थः । भावं कृष्णानुरागं भजाश्रय । अत्र पिकनिकरझंकारेण कृष्णमधुरालापस्य

परैरलक्ष्यतया तदीयनिःशङ्कभाषितान्यपि त्वं तत्रागता सती श्रोष्यसीति ध्वनितम् । अथ

च पिकस्य मधुरस्वरो यात्रायां शकुन इत्यपि ध्वनितम् । '"बन्दिनः स्तुतिपाठकाः '
"
इत्यमरः ॥ ३ ॥ <pratika>अनिलेति । </pratika>हे करभोरु, करभः कनिष्ठान्तो मणिबन्धपर्यन्तः करस्य

बहिर्भागस्तद्वन्निम्नोन्नतौ ऊरू यस्यास्तादृशि । गतिं गमनं प्रति विलम्ब कालक्षेपं मुञ्च ।

अनिलतरलकिसलयनिकरेण करेण अनिलेन वायुना तरलश्चञ्चलो यः किसलयनि-

करो नवपल्लवसमूहस्तत्स्वरूपेण करेण लतानिकुरम्बं लतासमूहस्तव प्रेरणमिव करोति ।

किसलयकम्पच्छलेनासमञ्जसमसहमानो लतासमूहोऽपि त्वां प्रेरयतीति भावः । अथवाग्रे

पल्लवितवृक्षादिदर्शनं यात्रायां फलसिद्धिसूचकम् । अतो गमनं प्रति विलम्बो न कार्य

इति ध्वनितम् । तदुक्तं शकुनशास्त्रे - '- "वामे मधुरवाक्पक्षी वृक्षः पल्लवितोऽग्रतः । अनु-

कूलो वहन्वायुः प्रयाणे शुभसूचकः'" इति । '"निकुरम्बं कदम्बकम्'" इत्यमरः । '"मणि-

न्धादाकनिष्ठं करस्य करभो बहिः'" इति च ॥ ४ ॥ <pratika>स्फुरितेति । अनुं</pratika>अमुं कुचकुम्भं स्तन-

कलशं पृच्छ सखी समीचीनं वा वदतीति प्रश्नं कुरु । कीदृशम् । स्फुरितं सकम्पम् ।

कस्मादिव, अनङ्गतरङ्गवशादिव, अनङ्गस्य कामस्य यस्तरङ्ग ऊर्मिंमिस्तद्वशादिव । अत्रानङ्गेत्यनेन

तस्या रसतरङ्गिणीत्वमाक्षिप्यते । अन्योऽपि कुम्भो नद्यास्तरङ्गैः प्रेर्यमाणः सकम्पो

भवतीत्ययमपि ते कुचकुम्भस्त्वयि रसतरङ्गिण्यामनङ्गतरङ्गैः प्रेरणादिव सकम्प इति

भावः । इवशब्द उत्प्रेक्षाद्योतकः । पुनः कीदृशं कुचकुम्भम् । मनोहरो यो हारः

स एव निर्मला जलधारा यत्र तादृशम् । अत्र स्तनोपरि स्थितस्य हारस्य जलधारा-
स्

त्
वरूपणात्स्तनयोः पूर्णकलशत्वेन रूपणमाक्षिप्यते । पूर्णादेव कलशात्तरङ्गैरान्दोलने
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri