This page has not been fully proofread.

सर्ग: ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
अनिलतरलकिसलयनिकरेण
 
करेण लतानिकुरम्बम् ।
 
प्रेरणमिव करभोरु करोति गतिं प्रति मुञ्च विलम्बम् ॥ मुग्धे० ४
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
 
पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ मुग्धे० ॥ ५ ॥
 
१४१
 
शासनबन्दिनीति तेषां विभावत्वमुक्तम् ॥ ३ ॥ अपि च । अनिलेति । हे कर-
भोरु करभवदूरू यस्याः । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।' लतानिकुर-
म्बं लतासमूहः । अनिलतरलकिसलयनिकरेणेव करेण । गतिं प्रति प्रेरणमिव
करोति । अतो विलम्बं मुञ्च । यत्र अचेतना अपि चेतनवत्प्रतिबोधयन्ति तत्रेष्ट-
सिद्धिरवश्यं भाविनी । अत्र करसान्निध्याल्लताशब्देन सख्यः त्वां त्वरयन्तीति द्यो-
त्यते ॥ ४ ॥ अपि च । स्फुरितमिति । हे सखि, अमुं कुचकुम्भं पृच्छ । प्रिय-
करस्पर्शलालसकुचकुम्भचेष्टां ज्ञातुमिच्छां कुरु । भाविप्रियावेदकः कुचकलशोऽपि
त्वां प्रेरयतीत्यर्थः । किंभूतं कुचकुम्भम् । स्फुरितम् । कुचस्फुरणं प्रियसंगममावेदयती ति
सामुद्रिकज्ञाः । कस्मादिव । कामोर्मिवशादिव । किंभूतम् । सूचितः कथितो हरेः परि-
रम्भो येन । अपि किंभूतम् । मनोहरो हार एव विमलजलधारा यत्र । शकुनकलशेऽपि
तरङ्गवशात्सूचितप्रियप्राप्तिर्भवति । विमलजलधारोऽपि, खण्डश्लेषालंकारः ॥ ५ ॥
 

 
सतीत्यर्थः । भावं कृष्णानुरागं भजाश्रय । अत्र पिकनिकरझंकारेण कृष्णमधुरालापस्य
परैरलक्ष्यतया तदीयनिःशङ्कभाषितान्यपि त्वं तत्रागता सती श्रोष्यसीति ध्वनितम् । अथ
च पिकस्य मधुरस्वरो यात्रायां शकुन इत्यपि ध्वनितम् । 'बन्दिनः स्तुतिपाठकाः '
इत्यमरः ॥ ३ ॥ अनिलेति । हे करभोरु, करभः कनिष्ठान्तो मणिबन्धपर्यन्तः करस्य
बहिर्भागस्तद्वन्निम्नोन्नतौ ऊरू यस्यास्तादृशि । गतिं गमनं प्रति विलम्ब कालक्षेपं मुञ्च ।
अनिलतरलकिसलयनिकरेण करेण अनिलेन वायुना तरलश्चञ्चलो यः किसलयनि-
करो नवपल्लवसमूहस्तत्स्वरूपेण करेण लतानिकुरम्बं लतासमूहस्तव प्रेरणमिव करोति ।
किसलयकम्पच्छलेनासमञ्जसमसहमानो लतासमूहोऽपि त्वां प्रेरयतीति भावः । अथवाग्रे
पल्लवितवृक्षादिदर्शनं यात्रायां फलसिद्धिसूचकम् । अतो गमनं प्रति विलम्बो न कार्य
इति ध्वनितम् । तदुक्तं शकुनशास्त्र - 'वामे मधुरवाक्पक्षी वृक्षः पल्लवितोऽग्रतः । अनु-
कूलो वहन्वायुः प्रयाणे शुभसूचकः' इति । 'निकुरम्बं कदम्बकम्' इत्यमरः । 'मणिन-
न्धादाकनिष्ठं करस्य करभो बहिः' इति च ॥ ४ ॥ स्फुरितेति । अनुं कुचकुम्भं स्तन-
कलशं पृच्छ सखी समीचीनं वा वदतीति प्रश्नं कुरु । कीदृशम् । स्फुरितं सकम्पम् ।
कस्मादिव, अनङ्गतरङ्गवशादिव, अनङ्गस्य कामस्य यस्तरङ्ग ऊर्मिंस्तद्वशादिव । अत्रानङ्गेत्यनेन
तस्या रसतरङ्गिणीत्वमाक्षिप्यते । अन्योऽपि कुम्भो नद्यास्तरङ्गैः प्रेर्यमाणः सकम्पो
भवतीत्ययमपि ते कुचकुम्भस्त्वयि रसतरङ्गिण्यामनङ्गतरङ्गैः प्रेरणादिव सकम्प इति
भावः । इवशब्द उत्प्रेक्षाद्योतकः । पुनः कीदृशं कुचकुम्भम् । मनोहरो यो हारः
स एव निर्मला जलधारा यत्र तादृशम् । अत्र स्तनोपरि स्थितस्य हारस्य जलधारा-
स्वरूपणात्स्तनयोः पूर्णकलशत्वेन रूपणमाक्षिप्यते । पूर्णादेव कलशात्तरङ्गैरान्दोलने
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri