This page has been fully proofread once and needs a second look.

घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।
मुखरितमणिमञ्जीरमुपैहि विधेहि मरालनिका[^१]रम् ॥ मुग्धैधे० ॥ २ ॥
 
शृणु रमणीयतरं तरुणीजनमोहनमधु[^२]पविरावम् ।
कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ मु० ॥ ३ ॥
 
द्द्योतनार्थत्वान्निकुञ्जोपादानम् । पुनः किंभूतम् । विरचितचाटुवचनरचनम् । पुनः
किंभूतम् । चरणे रचितप्रणिपातम् ॥ १ ॥ अपि च । <pratika>घनेति ।</pratika> हे घनजघनस्तन-
भारभरे । जघने च स्तनौ च जघनस्तनम् । घनं च तज्जघनस्तनं च । तस्य देशे
भरोऽतिशयो यस्यास्तस्याः संबुद्धिः । मुखरितमणिमञ्जीरं नूपुरं यथा स्यात्तथा
उपैहि आगच्छ । तेन चागमनेन मरालानां हंसानां निकारं जयं विधेहि ।
कथं विधेहीति चेत् । <pratika>दरमन्थरेति ।</pratika> ईषन्मन्थरचरणविन्यासं यथा-
स्यात्तथा ॥ २ ॥ अपि च । <pratika>शृण्विति ।</pratika>हे मुग्धे, रमणीयतरं तरुणीजन-
मोहनं मधुपानां विरुतं शृणु । अपि च कामाज्ञास्तुतिपाठके पिकसमूहे भावम-
भिप्रायं भज । किमुक्तं भवति । मधुपशब्देन कृष्ण उपलक्ष्यते वर्णतः साम्येन
त्वदोष्ठमधुपानेन च । अथ मधोर्दैत्यस्य पातनाच्छोषणान्मधुपः कृष्णः । तरुणीजन-
मोहनश्चासौ मधुपश्च तस्य भवत्सङ्गमे विशिष्टान्सीत्कृतादिशब्दाञ्शृणु । अनु च
त्वमपि तदा स्वात्मगतं रोषं त्यक्त्वा कोकिलस्वरा तमानन्दयेत्यर्थः । कुसुमशरासन-
 
तर्हि संप्रति कुत्रास्तीत्यत आह -- <pratika>संप्रतीति ।</pratika> संप्रत्यधुना वञ्जुलो वेतसस्तस्य सीमनि पर्यन्ते
यत्केलिशयनं क्रीडाशय्या तामनु लक्षीकृत्य यातं गतम् । त्वां तत्रस्थः प्रतीक्षत इत्यर्थः
॥ १ ॥ तां प्रोत्साहयन्ती सखी प्राह -- <pratika>घनेति ।</pratika> हे राधे, उपैहि कृष्णमुपगच्छ । कथं
तदित्याह । मुखरितः सशब्दः कृतो मणिमञ्जीरो मणिखचितो मञ्जीरो नूपुरो यत्र गमने
एवं यथा स्यात् । पुनः कथं यथा स्यात् । दरेण साध्वसेन मन्थरश्चरणविहारः पदविन्यासो
यत्रैवं यथा स्यात् । तत्र हेत्वन्तरगर्भविशेषणमाह -- <pratika>घनेति ।</pratika> घनयोर्निबिडयोर्जघनस्तनयो-
र्भारस्य भरोऽतिशयो यस्यास्तादृशी । मरालानां हंसानां स्वकीयमन्थरगमनेन मञ्जीरादि-
शब्देन च निकारं तिरस्कारं विधेहि कुरु । संप्रति मरालेषु शब्दायमानेषु सत्सु मञ्जी-
रादिध्वनिरपि मरालशब्दत्वेनैव लोके ग्राह्य इति संप्रति योग्योऽभिसारक्षण इति ध्वनिः ।
अथ संप्रति हंसस्य शब्दो यात्रायां शुभं सूचयतीति गमनं प्रति विलम्बो न कार्य
इत्यपि ध्वनितम् । तदुक्तं, वसन्तराजीये -- "कृष्णासु सर्वास्वपि दर्शनेन हंसस्य शब्देन
च सर्वसिद्धिः ।" इति । "मरालो राजहंसे स्यान्मरालो हंसमात्रके" इति धरणिः ।
"निकारः स्यात्परिभवे धान्यस्योत्क्षेपणेऽपि च" इति विश्वः ॥ २ ॥ <pratika>शृण्विति ।</pratika> तरुणी-
जनानां मोहजनकं मधुरिपोः कृष्णस्य रावं शब्दं शृणु । कीदृशम् । रमणीयतरमति-
शयेन रमणीयम् । पिकनिकरे कोकिलसमूहे कुसुमशरासनबन्दिनि सति । कुसु-
मान्येव शरासनं धनुर्यस्य तादृशः कामस्तच्छासनस्य तदाज्ञाया बन्दिनि स्तावके
सति । यद्वा कुसुमशरासनं वन्दितुं नमस्कर्तुं शीलमस्य तादृशे कामाज्ञाकारिणि
 
[^१.] "विकारम्" इति पाठः । [^२.] "मधुरिपुरावम्" इति पाठः ।