This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: ११
 
घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।

मुखरितमणिमञ्जीरमुपैहि विधेहि मरालनिका[^१]रम् ॥ मुग्धै० ॥ २ ॥

 
शृणु रमणीयतरं तरुणीजनमोहनमधु[^२]पविरावम् ।
 

कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ मु० ॥ ३ ॥
 
१४०
 
छ्

 
द्द्
योतनार्थत्वान्निकुञ्जोपादानम् । पुनः किंभूतम् । विरचितचाटुवचनरचनम् । पुनः

किंभूतम् । चरणे रचितप्रणिपातम् ॥ १ ॥ अपि च । <pratika>घनेति ।</pratika> हे घनजघनस्तन-

भारभरे । जघने च स्तनौ च जघनस्तनम् । घनं च तज्जघनस्तनं च । तस्य देशे

भरोऽतिशयो यस्यास्तस्याः संबुद्धिः । मुखरितमणिमञ्जीरं नूपुरं यथा स्यात्तथा

उपैहि आगच्छ । तेन चागमनेन मरालानां हंसानां निकारं जयं विधेहि ।

कथं विधेहीति चेत् । <pratika>दरमन्थरेति ।</pratika> ईषन्मन्थरचरणविन्यासं यथा-

स्यात्तथा ॥ २ ॥ अपि
च । <pratika>शृण्वति । विति ।</pratika>हे मुग्धे, रमणीयतरं तरुणीजन-

मोहनं मधुपानां विरुतं शृणु । अपि च कामाज्ञा स्तुतिपाठके पिकसमूहे भावम-

भिप्रायं भज । किमुक्तं भवति । मधुपशब्देन कृष्ण उपलक्ष्यते वर्णतः साम्येन.

त्वदोष्ठमधुपानेन च । अथ मधोर्दैत्यस्य पातनाच्छोषणान्मधुपः कृष्णः । तरुणीजन-

मोहनश्चासौ मधुपश्च तस्य भवत्सङ्गमे विशिष्टान्सीत्कृतादिशब्दाञ्शृणु । अनु

त्वमपि तदा स्वात्मगतं रोषं त्यक्त्वा कोकिलस्वरा तमानन्दयेत्यर्थः । कुसुमशरासन-

 
तर्हि संप्रति कुत्रास्तीत्यत आह - - <pratika>संप्रतीति ।</pratika> संप्रत्यधुना वञ्जुलो वेतसस्तस्य सीमनि पर्यन्ते

यत्केलिशयनं क्रीडाशय्या तामनु लक्षीकृत्य यातं गतम् । त्वां तत्रस्थः प्रतीक्षत इत्यर्थः

॥ १ ॥ तां प्रोत्साहयन्ती सखी प्राह -- <pratika>घनेति ।</pratika> हे राधे, उपैहि कृष्णमुपगच्छ । कथं

तदित्याह । मुखरितः सशब्दः कृतो मणिमञ्जीरो मणिखचितो मञ्जीरो नूपुरो यत्र गमने

एवं यथा स्यात् । पुनः कथं यथा स्यात् । दरेण साध्वसेन मन्थरश्चरणविहारः पदविन्यासो

यत्रैवं यथा स्यात् । तत्र हेत्वन्तरगर्भविशेषणमाह -- <pratika>घनेति ।</pratika> घनयोर्नि बिडयोर्जघनस्तनयो-

र्भा
रस्य भरोऽतिशयो यस्यास्तादृशी । मरालानां हंसानां स्वकीयमन्थरगमनेन मञ्जीरादि-

शब्देन च निकारं तिरस्कारं विधेहि कुरु । संप्रति मरालेषु शब्दायमानेषु सत्सु मञ्जी-

रादिध्वनिरपि मरालशब्दत्वेनैव लोके ग्राह्य इति संप्रति योग्योऽभिसारक्षण इति ध्वनिः ।

अथ संप्रति हंसस्य शब्दो यात्रायां शुभं सूचयतीति गमनं प्रति विलम्बो न कार्य

इत्यपि ध्वनितम् । तदुक्तं, वसन्तराजीये- ' -- "कृष्णासु सर्वास्वपि दर्शनेन हंसस्य शब्देन

च सर्वसिद्धिः ।'" इति । '"मरालो राजहंसे स्यान्मरालो हंसमात्रके'" इति धरणिः ।
'

"
निकारः स्यात्परिभवे धान्यस्योत्क्षेपणेऽपि च'" इति विश्वः ॥ २ ॥ <pratika>शृण्विति ।</pratika> तरुणी-

जनानां मोहजनकं मधुरिपोः कृष्णस्य रावं शब्दं शृणु । कीदृशम् । रमणीयतरमति-

शयेन रमणीयम् । पिकनिकरे कोकिलसमूहे कुसुमशरासनबन्दिनि सति । कुसु
-
मान्येव शरासनं धनुर्यस्य तादृशः कामस्तच्छासनस्य तदाशाज्ञाया बन्दिनि स्तावके

सति । यद्वा कुसुमशरासनं वन्दितुं नमस्कर्तुं शीलमस्य तादृशे कामाशाज्ञाकारिणि
 
-
 

 
[^
'.] "विकारम्'" इति पाठः । [^ '.] "मधुरिपुरावम्'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri