This page has been fully proofread once and needs a second look.

<bold>एकादशः सर्गः ११</bold>
 
सामोददामोदरः ।
 
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं
गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥
 
<bold>वसन्तरागयतितालाभ्यां गीयते । प्र० ॥ २० ॥</bold>
 
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥ १ ॥
 
मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ ध्रुवम् ॥
 
इदानीं कृतानुनयां राधां कापि सखी हरिमभि गमनाय प्रोत्साहयति -- <pratika>सुचि-
रेति ।</pratika> कापि सखी राधां जगाद । क्व सति । प्रदोषे रजनीमुखे स्फुरति सति ।
किंभूते प्रदोषे । दृष्टिं मुष्णातीति कर्मण्यण् । अभिसारिकाभिसरणावसान इत्यर्थः ।
किंभूतां राधाम् । निरवसादामङ्गीकृतानुनयेन गतखेदाम् । पुनः किंभूताम् । रचि-
तनीलनिचोलाद्यभिसरणयोग्यवेषाम् । क्व सति । कृतवेशे कृतनेपथ्ये वा कृतग्रहे
कृष्णे कुञ्जशय्यां गतवति सति । किं कृत्वा बहुकालानुनयेन मृगाक्षीमनुकूलयित्वा ।
मालिनीवृत्तम् ॥ १ ॥ तदेव प्रोत्साहमनुवदति -- <pratika>विरचितेति ।</pratika> तत्र पूर्वं ध्रुवः ।
<pratika>मुग्ध इति ।</pratika>हे मुग्धे प्रियाभिसरणकालानभिज्ञे राधिके, बालत्वद्योतनाय कप्र-
त्ययः । अनुगतमनुकूलं मधुमथनमनुसर । मा विलम्बं विधेहीत्यर्थः । इति ध्रुवः ।
अथ पदानि । विरचितेति ध्रुवेणान्वयः । किंभूतं मधुमथनम् । संप्रति इदानीमेव
मनोरमवञ्जुलसीम्नि केलिशयनमनुप्राप्तम् । वञ्जुलादीनां विभावत्वेन परिणमनात्त-
 
<pratika>सुचिरेति ।</pratika>कापि सखी राधां जगादोवाच । क्व सति । प्रदोषे स्फुरति सति ।
कीदृशे । दृग्विमोषे दृशौ विमुष्णाति चोरयति विषयग्रहणासमर्थे करोति तादृशे ।
गाढान्धकारे इत्यर्थः । पुनः क्व सति । केशवे मृगाक्षीं हरिणनयनां राधां सुचिरं बहुकालं
यथानुनयेन प्रीणयित्वा कुञ्जशय्यां लतावेष्टितकुटीराभ्यन्तरस्थशयनीयं गतवति गते सति ।
कीदृशे केशवे । कृतवेशे कृतालंकरणे । कीदृशीं राधाम् । रचिता रुचिरा मनोहरा
भूषालंकृतिर्यया ताम् । पुनः कीदृशीम् । निरवसादां निर्गतोऽवसादः कृष्णानागमनजन्यं
दुःखं यस्यास्ताम् ॥ १ ॥ तदेव गीतेन कथयति -- <pratika>विरचितेति ।</pratika> गीतस्यास्य वसन्तरागो
यतितालः । गीतार्थस्तु -- हे मुग्धे राधे, मधुमथनं कृष्णमनुसर । कीदृशम् । अनुगतं
त्वामनुसृतम् । अनुगतत्वमेवाह -- <pratika>विरचितेति ।</pratika> विरचिता विहिता चाटुवचनस्य रचना
संदर्भो येन तादृशम् । पुनः कीदृशम् । तव चरणे रचितः प्रणिपातः प्रणामो येन तादृशम् ।