This page has been fully proofread once and needs a second look.

सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
<bold>एकादशः सर्गः ११
 
</bold>
 
सामोददामोदरः ।
 
॥ ॥ व
 

 

 
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं

गतवति कृतवेशे केशवे कुञ्जशय्याम् ।

रचितरुचिरभूषां दृष्टिमोषे प्रदोषे
 

स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥

 
<bold>
वसन्तरागयतितालाभ्यां गीयते । प्र० ॥ २० ॥
</bold>
 
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।

संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥ १ ॥

 
मुग्धे मधुमथनमनुगत मनुसर राधिके ॥ ध्रुवम् ॥
 
१३९
 
-
 

 
इदानीं कृतानुनयां राधां कांकापि सखी हरिमभि गमनाय प्रोत्साहयति - - <pratika>सुचि
-
रेति ।</pratika> कापि सखी राधां जगाद । क्व सति । प्रदोषे रजनीमुखे स्फुरति सति ।

किंभूते प्रदोषे । दृष्टिं मुष्णातीति कर्मण्यण् । अभिसारिकाभिसरणावसान इत्यर्थः ।

किंभूतां राधाम् । निरवसादामङ्गीकृतानुनयेन गतखेदाम् । पुनः किंभूताम् । रचि-

तनीलनिचोलाद्यभिसरणयोग्यवेषाम् । क्व सति । कृतवेशे कृतनेपथ्ये वा कृतग्रहे

कृष्णे कुञ्जशय्यां गतवति सति । किं कृत्वा बहुकालानुनयेन मृगाक्षीमनुकूलयिला ।
त्वा ।
मालिनीवृत्तम् ॥ १ ॥ तदेव प्रोत्साहमनुवदति -- <pratika>विरचितेति ।</pratika> तत्र पूर्वं ध्रुवः ।

<pratika>
मुग्ध इति । </pratika>हे मुग्धे प्रियाभिसरणकालानभिज्ञे राधिके, बालत्वद्योतनाय कप्र-

त्ययः । अनुगतमनुकूलं मधुमथनमनुसर । मा विलम्बं विधेहीत्यर्थः । इति ध्रुवः ।

अथ पदानि । विरचितेति ध्रुवेणान्वयः । किंभूतं मधुमथनम् । संप्रति इदानीमेव

मनोरमवञ्जुलसीम्नि के लिशयनमनुप्राप्तम् । वञ्जुलादीनां विभावत्वेन परिणमनात्त-

 

 

 
<pratika>
सुचिरेति । </pratika>कापि सखी राधां जगादोवाच । क्व सति । प्रदोषे स्फुरति सति ।

कीदृशे । दृग्विमोषे दृशौ विमुष्णाति चोरयति विषयग्रहणासमर्थे करोति तादृशे ।

गाढान्धकारे इत्यर्थः । पुनः क्व सति । केशवे मृगाक्षीं हरिणनयनां राधां सुचिरं बहुकालं

यथानुनयेन प्रीणयित्वा कुञ्जशय्यां लतावेष्टितकुटीराभ्यन्तरस्थशयनीयं गतवति गते सति ।

कीदृशे केशवे । कृतवेशे कृतालंकरणे । कीदृशीं राधाम् । रचिता रुचिरा मनोहरा

भूषालंकृतिर्यया ताम् । पुनः कीदृशीम् । निरवसादां निर्गतोऽवसादः कृष्णानागमनजन्यं

दुःखं यस्यास्ताम् ॥ १ ॥ तदेव गीतेन कथयति -- <pratika>विरचितेति ।</pratika> गीतस्यास्य वसन्तरागो

यतितालः । गीतार्थस्तु -- हे मुग्धे राधे, मधुमथनं कृष्णमनुसर । कीदृशम् । अनुगतं

त्वामनुसृतम् । अनुगतत्व मेवाह -- <pratika>विरचितेति ।</pratika> विरचिता विहिता चाटुवचनस्य रचना

संदर्भोंभो येन तादृशम् । पुनः कीदृशम् । तव चरणे रचितः प्रणिपातः प्रणामो येन तादृशम् ।
 
-
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri