2022-10-18 04:14:21 by ambuda-bot
This page has not been fully proofread.
सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
एकादशः सर्गः ११
सामोददामोदरः ।
॥ ॥ व
॥
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं
॥ गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥
वसन्तरागयतितालाभ्यां गीयते । प्र० ॥ २० ॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥ १ ॥
मुग्धे मधुमथनमनुगत मनुसर राधिके ॥ ध्रुवम् ॥
१३९
-
इदानीं कृतानुनयां राधां कांपि सखी हरिमभि गमनाय प्रोत्साहयति - सुचि
रेति । कापि सखी राधां जगाद । क सति । प्रदोषे रजनीमुखे स्फुरति सति ।
किंभूते प्रदोषे । दृष्टिं मुष्णातीति कर्मण्यण् । अभिसारिकाभिसरणावसान इत्यर्थः ।
किंभूतां राधाम् । निरवसादामङ्गीकृतानुनयेन गतखेदाम् । पुनः किंभूताम् । रचि-
तनीलनिचोलाद्यभिसरणयोग्यवेषाम् । क्व सति । कृतवेशे कृतनेपथ्ये वा कृतग्रहे
कृष्णे कुञ्जशय्यां गतवति सति । किं कृत्वा बहुकालानुनयेन मृगाक्षीमनुकूलयिला ।
मालिनीवृत्तम् ॥ १ ॥ तदेव प्रोत्साहमनुवदति – विरचितेति । तत्र पूर्वं ध्रुवः ।
मुग्ध इति । हे मुग्धे प्रियाभिसरणकालानभिज्ञे राधिके, बालवद्योतनाय कप्र-
त्ययः । अनुगतमनुकूलं मधुमथनमनुसर । मा विलम्बं विधेहीत्यर्थः । इति ध्रुवः ।
अथ पदानि । विरचितेति ध्रुवेणान्वयः । किंभूतं मधुमथनम् । संप्रति इदानीमेव
मनोरमवञ्जुलसीम्नि के लिशयनमनुप्राप्तम् । वञ्जुलादीनां विभावत्वेन परिणमनात्त-
।
।
सुचिरेति । कापि सखी राधां जगादोवाच । क्व सति । प्रदोषे स्फुरति सति ।
कीदृशे । दृग्विमोषे दृशौ विमुष्णाति चोरयति विषयग्रहणासमर्थे करोति तादृशे ।
गाढान्धकारे इत्यर्थः । पुनः क्व सति । केशवे मृगाक्षीं हरिणनयनां राधां सुचिरं बहुकालं
यथानुनयेन प्रीणयित्वा कुञ्जशय्यां लतावेष्टितकुटीराभ्यन्तरस्थशयनीयं गतवति गते सति ।
कीदृशे केशवे । कृतवेशे कृतालंकरणे । कीदृशीं राधाम् । रचिता रुचिरा मनोहरा
भूषालंकृतिर्यया ताम् । पुनः कीदृशीम् । निरवसादां निर्गतोऽवसादः कृष्णानागमनजन्यं
दुःखं यस्यास्ताम् ॥ १ ॥ तदेव गीतेन कथयति — विरचितेति । गीतस्यास्य वसन्तरागो
यतितालः । गीतार्थस्तु - हे मुग्धे राधे, मधुमथनं कृष्णमनुसर । कीदृशम् । अनुगतं
त्वामनुसृतम् । अनुगतत्व मेवाह — विरचितेति । विरचिता विहिता चाटुवचनस्य रचना
संदर्भों येन तादृशम् । पुनः कीदृशम् । तव चरणे रचितः प्रणिपातः प्रणामो येन तादृशम् ।
-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri