This page has been fully proofread once and needs a second look.

स[^३८
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: १०
 
सं
] प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे

राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान् ।
यन्त्र

यत्र स्
विद्यति मीलति क्ष[^२]णमपि क्षिप्रं तदालोकन-

व्या[^३]मोहेन जितं जितं जितमभूत्कंसस्य कोलाहलः ॥ ८ ॥

 
इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो

नाम दशमः सर्गः ॥ १० ॥
 

 
रुचिरा चित्रलेखा च वर्णिता ॥ '"जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः'" इति पृथ्वी-

छन्दः । कल्पितोपमालंकारः ॥ ७ ॥ <pratika>स प्रीतिमिति ।</pratika> स हरिर्जगतां प्रीतिं तनुतां

हर्षं विस्तारयतु । कीदृशो हरिः । कुवलयापीडेन कंसदन्तिना सार्धं रणे संमेभेदवा-

न्संगमवान् । किं विशिष्टेन कुवलयापीडेन । राधापीनपयोधरयोः स्मरणकरौ कुम्भौ

यस्य तेन । क इत्यपेक्षायामाह -- यत्र हराविति हेतोः राधापीनपयोधरस्मरणादेव

सात्विकभावोद्रेकात्क्षणं स्विद्यति स्वेदयति । <pratika>मीलतीति ।</pratika> चक्षुषि निमीलति सति

कंसस्य तदालोकनात्तस्य तथाविधस्य दर्शनाद्व्यामोहेन भ्रान्त्या क्षिप्रं वेगेन जितं जित-

मिति कोलाहलो भवति स्म । भ्रान्तिमदाशिषावलंकारौ । शृङ्गारवीरयोः संकरश्च ।

शार्दूलविक्रीडितं वृत्तम् ॥ ८ ॥
 

आनन्दकन्दली कन्दं मुकुन्दं नन्दनन्दनम् ।

प्रणम्य दशमं सर्गं व्याकरोत्कुम्भभूपतिः ॥
 

इति श्रीचित्रकूटाधीश्वरराजाधिराज
महाराजश्रीकुम्भकर्णविरचितायां

रसिकप्रियायां चतुरचतुर्भुजो नाम दशमः सर्गः ॥
 

 
रचितचित्रलेखे रचिता मयि कोपवशाच्चित्रा विचित्रा लेखा भ्रुकुटी याभ्यां तादृशे । तथा

च स्वर्गे एकैव चित्रलेखा त्वद्भूभ्रूभ्यां तु चित्रलेखाद्वयं रचितमित्याश्चर्यमिति भावः । प्रेयो-

नामायमलङ्कारः । तदुक्तं दण्डिना - '- "प्रेयः प्रियतराख्यानं रसवद्रसपेशलम्'" इति । पृथ्वी-

नामकं चेदं छन्दस्तल्लक्षणं वृत्तरत्नाकरे । '"रम्भा कल्यप्सरसोः'" इति विश्वः । युवतीनां

समूहो यौवतम् । '"भिक्षादिभ्योऽण्' । '" । "गार्भिणं यौवतं गणे'" इत्यमरः ॥ ७ ॥ (अत्र

सप्रीतिमित्यादिश्लोकटीका नोपलभ्यते आदर्शपुस्तके ॥ ८ ॥)

स्फुटीकृतरसोत्करां प्रथितशालिनाथोल्लस-

त्सुरद्रुमसमुद्भवां विबुधवर्गदत्तोत्सवाम् ।

नृणां सरसमाधवोत्तमगुणैः प्रमोदप्रदां
 

लिहन्तु रसमञ्जरीं रसिकचञ्चरीका मुहुः ॥ १ ॥

इति श्रीमहामहोपाध्यायश्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां

गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां दशमः सर्गः ॥
 

 
[^
'.] "प्रीति वस्तनुताम्'" इति पाठः । [^ '.] "क्षणमथ क्षिप्ते द्विपे तत्क्षणात्'" इति पाठः ।
 

[^
'.] "कंसस्यालमभूज्जितं जितमिति व्यामोहकोलाहलः'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri