This page has not been fully proofread.

१३८
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: १०
 
सं प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे
राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान् ।
यन्त्र विद्यति मीलति क्षणमपि क्षिप्रं तदालोकन-
व्यामोहेन जितं जितं जितमभूत्कंसस्य कोलाहलः ॥ ८ ॥
इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो
नाम दशमः सर्गः ॥ १० ॥
 
रुचिरा चित्रलेखा च वर्णिता ॥ 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति पृथ्वी-
छन्दः । कल्पितोपमालंकारः ॥ ७ ॥ स प्रीतिमिति । स हरिर्जगतां प्रीतिं तनुतां
हर्ष विस्तारयतु । कीदृशो हरिः । कुवलयापीडेन कंसदन्तिना सार्धं रणे संमेदवा-
न्संगमवान् । किं विशिष्टेन कुवलयापीडेन । राधापीनपयोधरयोः स्मरणकरौ कुम्भौ
यस्य तेन । क इत्यपेक्षायामाह - यत्र हराविति हेतोः राधापीनपयोधरस्मरणादेव
सात्विकभावोद्रेकात्क्षणं स्विद्यति स्वेदयति । मीलतीति । चक्षुषि निमीलति सति
कंसस्य तदालोकनात्तस्य तथाविधस्य दर्शनाद्यामोहेन भ्रान्त्या क्षिप्रं वेगेन जितं जित-
मिति कोलाहलो भवति स्म । भ्रान्तिमदाशिषावलंकारौ । शृङ्गारवीरयोः संकरश्च ।
शार्दूलविक्रीडितं वृत्तम् ॥ ८ ॥
 
आनन्दकन्दली कन्दं मुकुन्दं नन्दनन्दनम् ।
प्रणम्य दशमं सर्ग व्याकरोत्कुम्भभूपतिः ॥
 
इति श्रीचित्रकूटाधीश्वरराजाधिराज
महाराजश्रीकुम्भकर्णविरचितायां
रसिकप्रियायां चतुरचतुर्भुजो नाम दशमः सर्गः ॥
 
रचितचित्रलेखे रचिता मयि कोपवशाच्चित्रा विचित्रा लेखा भ्रुकुटी याभ्यां तादृशे । तथा
च स्वर्गे एकैव चित्रलेखा त्वद्भूभ्यां तु चित्रलेखाद्वयं रचितमित्याश्चर्यमिति भावः । प्रेयो-
नामायमलङ्कारः । तदुक्तं दण्डिना - 'प्रेयः प्रियतराख्यानं रसवद्रसपेशलम्' इति । पृथ्वी-
नामकं चेदं छन्दस्तल्लक्षणं वृत्तरत्नाकरे । 'रम्भा कइल्यप्सरसोः' इति विश्वः । युवतीनां
समूहो यौवतम् । 'भिक्षादिभ्योऽण्' । 'गार्भिणं यौवतं गणे' इत्यमरः ॥ ७ ॥ (अत्र
सप्रीतिमित्यादिश्लोकटीका नोपलभ्यते आदर्शपुस्तके ॥ ८ ॥)
स्फुटीकृतरसोत्करां प्रथितशालिनाथोल्लस-
त्सुरद्रुमसमुद्भवां विबुधवर्गदत्तोत्सवाम् ।
नृणां सरसमाधवोत्तमगुणैः प्रमोदप्रदां
 
लिहन्तु रसमञ्जरीं रसिकचञ्चरीका मुहुः ॥ १ ॥
इति श्रीमहामहोपाध्यायश्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायां दशमः सर्गः ॥
 
१ 'प्रीति वस्तनुताम्' इति पाठः । २ 'क्षणमथ क्षिप्ते द्विपे तत्क्षणात्' इति पाठः ।
 
३ 'कंसस्यालमभूज्जितं जितमिति व्यामोहकोलाहलः' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri