2022-10-18 04:13:45 by ambuda-bot
This page has not been fully proofread.
एकदा स क्वचिद्रामे निमन्त्रणवशागतः ।
तत्र संमानितः शिष्यैर्वस्त्रालंकरणादिभिः ॥
भोजयित्वा सुवर्णानि दत्त्वा प्रातर्विसर्जितः ।
आगच्छद्विपिने मार्गे चिन्तयन्पुरुषोत्तमम् ॥
ततः खड्गधरास्तत्र लुण्टाकाः समुपागताः ।
चत्वारो निर्दयास्तीत्राः कालान्तकयमोपमाः ॥
तान्दृष्ट्वा जयदेवस्तु धनलोभाजिघांसतः ।
उपायमकरोत्तत्र प्राणत्राणाय केवलम् ॥
तानुवाच कविः प्रेम्णा वत्सा यूयं क्व गच्छथ ।
पुरुषोत्तमपुरीं याम इत्युक्तस्तैः पुनः स तु ॥
उवाच तान्मधुरया वाचा भद्रमभूदिह ।
मयापि तत्र गन्तव्यं भवद्भिः साकमेव हि ॥
परं तु वृद्ध एकाकी गृहीत्वैतद्धनानि भो ।
गन्तुं न शक्तो यूयं चेद्धनमेतत्प्रगृह्य च ॥
गच्छताद्य मया सार्धं तदा मे गमनं भवेत् ।
इत्युक्त्वा तानि वस्त्राणि सुवर्णानि च सर्वशः ॥
तेभ्यो दत्त्वा सुखं मेने प्राणत्राणं मुदान्वितः ।
शनैः शनैस्ततः पश्चात्ततः सोऽप्यगमत्कविः ॥
गृहीत्वैतानि वस्तूनि सुखं गच्छन्त्वमी पुनः ।
यास्यामि स्वगृहं दैवान्महारिष्टाद्विमोचितः ॥
अन्यथा माममी लोभाद्धात येयुर्न संशयः ।
इत्येवं चिन्तयन्तं तं जयदेवं शनैः शनैः ॥
गच्छन्तं पुरतश्चौरा दीर्घनादैः समाह्वयन् ।
अहो शीघ्रं समागच्छ गृहाणेदं निजं धनम् ॥
त्वं तु गन्तुं न शक्नोषि दूरं गन्तव्यमस्ति नः ।
इति श्रुत्वा वचस्तेषां जयदेवोऽतिशङ्कितः ॥
किं करिष्यन्त्यमील्येत(न्मनसाचि) चिन्तयत् पथि ( ? ) ।
तावत्ते मन्त्रयामासुरयं धूर्तोऽस्ति वै द्विजः ॥
अस्माभिरेव वस्तूनि प्रापयिष्यति नः पुनः ।
घातयिष्यति गत्वायं स्वग्रामे नात्र संशयः ॥
तस्मादेनं निहत्याथ गमिष्यामो न चान्यथा ।
एवं केनचिदुचे च तन्मध्ये कोऽप्यभाषत ।
अहो किं मारणेनास्य बद्ध्वा संस्थाप्यतां क्वचित् ।
इत्युक्त्वा जयदेवं तु गृहीत्वा तेऽतिनिर्दयाः ॥
इस्ती पादौ तथैकन्न बद्धा चिक्षिपुरन्यतः ।
पुनस्तन्मध्यतः कोऽपि महादुष्टोऽतिनिर्दयः ॥
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri