This page has not been fully proofread.

सर्गः १० ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १३७
 
दृशौ तव मदालसे वदनमिन्दुसंदीपकं
गतिर्जनमनोरमा विर्जितरम्भसूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे ध्रुवा-
॥ 5 ॥ वहो विबुधयौवतं वहसि तन्वि पृथ्वीगता ॥ ७ ॥
 
न्तिपराकरणशीलं चकास्ति । अनेन कृष्णवर्ण उन्मादनबाणोऽभाणि । अपि च ।
तवेयं नासा तिलप्रसूनपदवीमत्येति अतिक्रामति । अनेन द्रावणबाण उक्तः । अपि
च । हे प्रिये, कुन्दाभदन्ति कुन्दवदुज्वलदशने, अनेन शोषणबाण उक्तः । एवमेतैः
पञ्चभिर्बाणैर्भवत्याः सेवको भूत्वा विश्वजेता भवतीति । शार्दूलं वृत्तम् । उपमावि-
शेषोऽलंकारः । अनुप्रासो वर्णालंकारः । असमस्तपदा वैदर्भी रीतिः । प्रसादो गुणः ।
स्थितलयं गानम् । संभाविता गीतिः । कैशिकी वृत्तिः ॥ ६ ॥ दृशाविति । अहो
इति आश्चर्ये । त्वं पृथ्वीगतापि दिव्यस्त्रीसमूहं वहसि । क्व कामित्याह । तव दृशौ
मदेनालसे वर्तेते । अनेन मदालसतां वहसीत्युक्तम् । अपि च तव वदनं चन्द्रवद्दी-
प्तिमद्वर्तते । अनेन इन्दुमतीनाम्नी अप्सराः कथिता । अपि च । तव गतिर्जन-
मनांसि रमयतीति । अनेन मनोरमा काचन सुरस्त्री भणिता । अपि च तवोरुद्वयं
विजितकदलीकाण्डं वर्तते । अनेन रम्भोक्ता । अपि च तव रतिः संभोगः कलावती
हावभाव किलकिञ्चितमोायित विव्वोकादिमती वर्तते । अनेन कलावती काचिद्देव-
नायिकता । अपि च तव भ्रुवौ रुचिरे चित्रे लेखे ययोस्ते तादृश्यौ । अनेन
 
1
 

 

 
सः
 
स्येवाभा दीप्तिर्येषां ते दन्तास्तादृशि । तव नासा तिलप्रसूनपदवीं तिलपुष्पपद्धतिम-
भ्येति प्राप्नोति । प्राय इति तर्कयामि । स प्रसिद्धः पुष्पायुधः पुष्पमेवायुधं शस्त्रं यस्य
कामस्त्वन्मुखसे नया त्वन्मुखमेव सेना कटकं तेन विश्वं विजयते । कामः पञ्चभिः
शरैर्विश्वं जयति । त्वन्मुखे बन्धूकमधूकनीलोत्पलतिलकुन्दपुष्पाणि पञ्च सन्तीति त्वन्मु-
खेनैष कामो विश्वं जयतीति भावः ॥ 'बन्धूकं बन्धुजीवे स्यात्' ( इति मेदिनी ।) 'मधु-
पुष्पो मधूकश्च गूढपुष्पो मधुद्रुमः' इति हारावली ॥ ६ ॥ दृशाविति । हे तन्वि, त्वं
पृथ्वीगता पृथ्व्यां भुवि गता प्राप्ता सती विबुधयौवतं देवयुवतीसमूहमाश्चर्येण वहसि धार-
यसि । तदेवाह—दृशाविति । तव दृशौ नेत्रे मदालसे मदेन हर्षेणालसे मन्थरे । अथ च
मदालसा स्वर्वेश्या । तथा च स्वर्गे एकैव मदालसा त्वं तु एकबद्वे मदालसे दधासीत्याश्च -
र्यमिति भावः । तव वदनमिन्दुमत्यास्पदमिन्दुविषयिणी या मतिस्तस्या आस्पदं विषय इत्यर्थः ।
तव मुखेऽयमिन्दुरिति मतिर्भवति । अमरलोकानामिन्दुमती काचन देवाङ्गना तस्या आश्रयः ।
अथवा रमा लक्ष्मीस्तदात्मिकेत्यर्थः । तथा तवोरुद्वयमूरुयुग्मं विधुतरम्भं विधुते स्वशोभया
तिरस्कृते रम्भे कदल्यौ येन तादृशम् । अथ च रम्भा स्वर्वेश्या । स्वर्गे एकैव रम्भा त्वमू-
रुद्रयात्मकं रम्भाद्वयं दधासीति भावः । अथ च तव रतिः सुरतकेलि: कलावती कौश-
लशालिनी । अथ च तव रतिः कामपली । अस्ति कलावतीनाम्नी देवाङ्गना । ते ध्रुवौ
 
१ 'मिन्दुमत्यास्पदं ' इति पाठः । २ 'विधुतरम्भम्' इति पाठः ।
 
१४ गीत०
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri