This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्गः १०
 
सुमुखि विमुखीभावं तावद्विमुञ्च न वेव[^१]ञ्च न

स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः ॥ ५ ॥

 
बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि-

र्
गण्डचण्डि चकास्ति नीलनलिन श्रीमोचनं लोचनम् ।

नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये

प्रायस्त्वन्मुखसेव[^२]या विजयते विश्वं स पुष्पायुधः ॥ ६ ॥
 

 
पादानेन
 
वसन्तसमयसंजातरुचिरालापको किलजेतृत्वं सूचितम् । वसन्ते हि कामिन्यः

स्वैरं प्रियमनुसरन्तीति व्यज्यते । तरुणि मौनं वचनशक्तौ सत्यामवचनमर्थान्त-

रापाति तत्त्यजेति । अपि च दृष्टिभिरित्यत्र '"दृशिर् प्रेक्षणे'" इत्यत्र प्रशब्दो दर्शनप्रकर्
षं
स्निग्धत्वादि वदति । तेन स्निग्धलोचनैस्तापं विनोदयेति विशिष्टोऽर्थो लभ्यते । हे

सुमुखि, तावद्विमुखीभावं विमुञ्च । सुमुख्या विमुखीभावो न युक्तः । हे मुग्धे,

अयमहमतिशयस्निग्धः स्नेहवान्प्रीतिमांश्च उपस्थित इति मां न वञ्च इति न

अपि तु वञ्च जानीहि । अयमिति औदासीन्यव्यावृत्त्यर्थो निर्देशः । अत्र मुग्धत्वं

न घटते । चातुर्यमुपेत्य मां त्वदेकतानं जानीही त्यर्थः । अत्र हरिणीतम् ।

यथासंख्यमलंकारः । अनुकूलो नायकः । प्रसादो गुणः । कैशिकी वृत्तिः । वैदर्भी
ति ।

रीतिः । मागधी गीतिः ॥ ५ ॥ <pratika> बन्धूकेति ।</pratika>
हे चण्डि, इति सांप्रतं कोपहानावपि

भूतपूर्वकोप'पाश्रयणेन संबुद्धिः । प्रिय इति वितर्फेके । अहमिति जाने । स पुष्पायुध-

स्त्वन्मुखसेवया विश्वं जयते । स इत्यनेन स बाणोऽपीश्वरदग्धः स्मर्यते । स तथाविधः

सांप्रतं पुष्पैरपि आश्रय विशेषेण साधकैः सुरासुरैर्दुर्जयमपि विश्वं विजयते ।

तानेव त्वन्मुखसेविपौष्पान्पञ्चबाणानुद्दिशति । हे चण्डि, अयं तवाधरो बन्धूकद्यु-

तिबान्धवः बन्धुजीवकान्तिसदृशः । अनेन रक्ताकर्षणबाण उक्तः । अपि च

तव गण्डः स्निग्धो मधूकच्छ विश्कास्ति । विरहिणीनां हि गण्डे पीतिमा भवति ।

अनेन पीतो वशीकारबाण उक्तो भवति । अपि च तव लोचनं नीलनलिनका-
रीतिः । मागधी गीतिः ॥ ५ ॥
 

 
विमुखीभावं त्यज मयि विमुखतां तावद्विमुञ्च । सुमुख्यास्ते वैमुख्यमनुचितमिति भावः ।

मानं मुञ्च त्यज । हे मुग्धे, अयं प्रियोऽनाकाङ्क्षित एवोपस्थित आगतः । कीदृशः ।

अतिशयस्निग्धोऽतिशयेन स्नेहवान् । तथा च स्वयमागतः प्रियः ( इति ) हेतुर्नोचित इति

भावः ॥ ५ ॥ संप्रति त्वयि मानवत्यां त्वन्मुखेनैव कामो मां पीडयति । अतस्त्वं

प्रसीदेत्याशयेनाह -- <pratika> बन्धूकेत्यादि ।</pratika> अतिकोपने, अयं तवाधरो बन्धूकद्युतिबान्धवो बन्धूकस्य

पुष्पविशेषस्य या द्युतिर्दीप्तिस्तस्या बान्धवः सुहृत् । अत्र तद्वाबान्धवरूपणेन बन्धूकद्युति-

समाघेधेरनित्यद्युतिर्व्यज्यते । अयं स्निग्धो गण्ड:डः कपोलो मधूकच्छविर्मधूकपुष्पस्येव छविः

कान्तिर्यस्य एतादृशश्चकास्ति शोभते । लोचनं नीलनलिन श्रीमोचनं स्वकान्त्या नील-

नलिनस्य नीलोत्पलस्य श्रियं कान्तितिं मोचयति त्याजयति । हे कुन्दाभदन्ति, कुन्दपुष्प-

 
[^
'.] "न वञ्चय'"; '"न मुञ्च मां'" इति च पाठौ । [^ '.] "सेनया'" इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri