2022-10-18 04:14:21 by ambuda-bot
This page has not been fully proofread.
गीतगोविन्दकाव्यम्
[ सर्गः १०
सुमुखि विमुखीभावं तावद्विमुञ्च न वेञ्च न
स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः ॥ ५ ॥ ॐ
बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि-
गण्डचण्डि चकास्ति नीलनलिन श्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ६ ॥
पादानेन
वसन्तसमयसंजातरुचिरालापको किलजेतृत्वं सूचितम् । वसन्ते हि कामिन्यः
स्वैरं प्रियमनुसरन्तीति व्यज्यते । तरुणि मौनं वचनशक्तौ सत्यामवचनमर्थान्त-
रापाति तत्त्यजेति । अपि च दृष्टिभिरित्यत्र 'दृशिर् प्रेक्षणे' इत्यत्र प्रशब्दो दर्शनप्रकर्ष
स्निग्धत्वादि वदति । तेन स्निग्धलोचनैस्तापं विनोदयेति विशिष्टोऽर्थो लभ्यते । हे
सुमुखि, तावद्विमुखीभावं विमुञ्च । सुमुख्या विमुखीभावो न युक्तः । हे मुग्धे,
अयमहमतिशयस्निग्धः स्नेहवान्प्रीतिमांश्च उपस्थित इति मां न वञ्च इति न
अपितु वञ्च जानीहि । अयमिति औदासीन्यव्यावृत्त्यर्थो निर्देशः । अत्र मुग्धत्वं
न घटते । चातुर्यमुपेत्य मां त्वदेकतानं जानीही त्यर्थः । अत्र हरिणीतम् ।
यथासंख्यमलंकारः । अनुकूलो नायकः । प्रसादो गुणः । कैशिकी वृत्तिः । वैदर्भी
ति । हे चण्डि, इति सांप्रतं कोपहानावपि
भूतपूर्वकोप'श्रयणेन संबुद्धिः । प्रिय इति वितर्फे । अहमिति ने पुष्पायुध-
स्त्वन्मुखसेवया विश्वं जयते । स इत्यनेन स बाणोऽपीश्वरदग्धः स्मर्यते । स तथाविधः
सांप्रत पुष्पैरपि आश्रय विशेषेण साधकैः सुरासुरैर्दुर्जयमपि विश्वं विजयते ।
तानेव त्वन्मुखसेविपौष्पान्पञ्चबाणानुद्दिशति । हे चण्डि, अयं तवाधरो बन्धूकद्यु-
तिबान्धवः बन्धुजीवकान्तिसदृशः । अनेन रक्ताकर्षणबाण उक्तः । अपि च
तव गण्डः स्निग्धो मधूकच्छ विश्वकास्ति । विरहिणीनां हि गण्डे पीतिमा भवति ।
अनेन पीतो वशीकारबाण उक्तो भवति । अपि च तव लोचनं नीलनलिनका-
रीतिः । मागधी गीतिः ॥ ५ ॥
विमुखीभावं त्यज मयि विमुखतां तावद्विमुञ्च । सुमुख्यास्ते वैमुख्यमनुचितमिति भावः ।
मानं मुञ्च त्यज । हे मुग्धे, अयं प्रियोऽनाकाङ्क्षित एवोपस्थित आगतः । कीदृशः ।
अतिशयस्निग्धोऽतिशयेन स्नेहवान् । तथा च स्वयमागतः प्रियः ( इति ) हेतुर्नोचित इति
भावः ॥ ५ ॥ संप्रति त्वयि मानवत्यां त्वन्मुखेनैव कामो मां पीडयति । अतस्त्वं
प्रसीदेत्याशयेनाह—बन्धूकेत्यादि । अतिकोपने, अयं तवाधरो बन्धूकद्युतिबान्धवो बन्धूकस्य
पुष्पविशेषस्य या द्युतिर्दीप्तिस्तस्या बान्धवः सुहृत् । अत्र तद्वान्धवरूपणेन बन्धूकद्युति-
समाघेरनित्यद्युतिर्व्यज्यते । अयं स्निग्धो गण्ड: कपोलो मधूकच्छविर्मधूकपुष्पस्येव छविः
कान्तिर्यस्य एतादृशश्चकास्ति शोभते । लोचनं नीलनलिन श्रीमोचनं स्वकान्त्या नील-
नलिनस्य नीलोत्पलस्य श्रियं कान्ति मोचयति त्याजयति । हे कुन्दाभदन्ति, कुन्दपुष्प-
१ 'न वञ्चय'; 'न मुञ्च मां' इति च पाठौ । २ 'सेनया' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri