This page has been fully proofread once and needs a second look.

शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकाल[^१]सर्पी ।
तदुदितभ[^२]यभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ ४ ॥
 
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं
तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः ।
 
चण्डि, त्वं मुदमुद्वह एव । नान्योऽत्रकाशः । चण्डित्वं त्यज । त्वया चण्डित्वे
ध्रियमाणे पञ्चबाणचण्डालकाण्डदलनान्ममासवः प्रथायान्ति । वसन्ततिलकावृत्तम् ।
रतिर्भावो व्यङ्ग्यः । तेन रसवदलंकारता । अनुकूलो नायकः । मुग्धा नायिका ।
प्रसादो गुणः । वैदर्भी रीतिः ॥ ३ ॥ इदानीं वात्स्यायनन्यायमाश्रित्य क्रमेणानुकू-
लयति - -<pratika>शशिमुखीति ।</pratika> हे शशिमुखि, तव भङ्गुरभ्रूर्युवजनमोहकरालकालसर्पोंपी
विद्यते । युक्तोऽयमर्थः । शशिनो हिंसार्थश्रवणात् । या हिंस्रमुखी भवति तस्या मुखे
भ्रूः कृष्णसर्पी भवत्येव । यूनां तरुणानां यतः सर्पादुदितभयभंजनाय त्वदधरसी-
धुसुधैव त्वदधरसीधुः स एव सुधा । तव किलामृतबुद्ध्या तत्सन्निधौ कृष्णसर्ध्प्या
अवस्था न युज्यते इति योजना । अथवा हे शशिमुखि, तव मुखे भ्रूस्तावत्सपल्र्पीत्य-
नुमीयते । यतो यदुदितभयभञ्जनाय यूनां त्वदधर एव सीधुः । पानसाधर्म्यात् स एव
सुधामधुरत्वाद्विषनाशनाय सिद्धमन्त्रः । अत्र सुधाया आस्वाद्यत्वेन ओषधित्वे वक्तव्ये
यन्मन्त्रोपादानं तत्सर्वयुवसाधारण्येन शृङ्गाराभासव्यावृत्त्यर्थम् । अतिसौन्दर्यात् । अन्ये
स्मरन्तु नाम उपभोगयोग्यत्वं हरेरेवेति । पुष्पिताम्रा वृत्तम् । अत्र कल्पितोपमा-
रूपकालंकारौ । तमेव क्रमशब्दार्थं विशिनष्टि आसर्गपरिसमाप्तेः ॥ ४ ॥ <pratika>व्यथय-
तीति । </pratika>हे तन्वि कृशाङ्गि, तवैतद्वृथा मौनं मां व्यथयति । त्वया तनुत्वाद्वक्तुमश-
क्यत्वेन मौनं न ध्रियते किंतु निरपराधे सापराधोऽयमिति वृथाशब्दद्योत्यम् । अत
एव व्यथयति । हे तरुणि, मधुरालापैः पञ्चमं पञ्चमस्वरं प्रपञ्चय विस्तारय । पञ्चमो-

यथोचितदण्डाचरणं विधेयमिति भावः । '"चण्डी कात्यायनीदेत्र्व्यां हिंस्रकोपनयोषितो:'तोः"
इति विश्वः ॥ ३ ॥ ननु कोपो मम नास्त्येवेति आह -- <pratika>शशिमुखीत्यादि ।</pratika>
हे शशिमुखि चन्द्रानने, तव भङ्गुरभ्रूः भाति । कीदृशी । युवजनानां तरुणजनानां
मोहनाय करालो भीषणः कालसर्पः । भुजंगो दष्ट्वा मोहयति, इयं दृष्ट्वा मोहयतीत्येतस्या
करालत्वम् । अतस्तदुदित विषभञ्जनाय तत्सकाशादुदितमुद्गतं यद्विषं तस्य भञ्जनाय
नाशाय यूनां तरुणजनानां त्वदधरसीधुसुधैव त्वदीयाधर एव सीधुर्मदिराविशेषः स
एवामृतं तदेव सिद्धः साधितो मन्त्रः । अन्यो जपादिना विषं नाशयति अयं त्वासादित
एवेति एतस्यान्यमन्त्रापेक्षया सिद्धत्वम् । तथा चायमपि तव भ्रूकालसर्पविषमूर्च्छितस्तस्या-
प्यौषधत्वेन तवाधरः सुधायाः समान इति भावः । '"करालो भीषणेऽन्यवत्'" इति विश्वः ॥४॥
<pratika>व्यथयतीत्यादि ।</pratika> हे तन्वि, तव वृथा मौनमकारणवाग्बन्धनं मां व्यथयति
पीडयति । किंच । हे तरुणि, मधुरालपितैस्तैः पञ्चमं स्वरविशेषं प्रपञ्चय विस्तारय ।
किंच । दृष्टिभिरवलोकनैस्तापं संतापं विनोदय विशेषतोऽपसारय । हे सुमुखि,
 
भञ्जनाय
 
[^ '.] "कालसर्प : 'पः" इति पाठः । [^ '.] "विषभञ्जनाय'" इति पाठः ।