This page has not been fully proofread.

सर्गः १०] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकाल[^१]सर्पी

तदुदितर्[^२]यभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥ ४ ॥

 
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं
 

 

तरुण मधुरालापैस्तापं विनोदय दृष्टिभिः ।
 
-
 

 
चण्डि, त्वं मुदमुद्वह एव । नान्योऽत्रकाशः । चण्डित्वं त्यज । त्वया चण्डित्वे

ध्रियमाणे पञ्चबाणचण्डालकाण्डदलनान्ममासवः प्रथान्ति । वसन्ततिलकावृत्तम् ।

रतिर्भावो व्यङ्ग्यः । तेन रसवदलंकारता । अनुकूलो नायकः । मुग्धा नायिका ।

प्रसाद गुणः । वैदर्भी रीतिः ॥ ३ ॥ इदानीं वात्स्यायनन्यायमाश्रित्य क्रमेणानुकू-

लयति - शशिमुखीति । हे शशिमुखि, तव भरभ्रूयुवजनमोहकरालकालसर्पों

विद्यते । युक्तोऽयमर्थः । शशिनो हिंसार्थश्रवणात् । या हिंस्रमुखी भवति तस्या मु

भ्रूः कृष्णसर्पी भवत्येव । यूनां तरुणानां यतः सर्पादितभयभंजनाय त्वदधरसी-

धुसुधैव त्वदधरसीधुः स एव सुधा । तव किलामृतबुद्ध्या तत्सन्निधौ कृष्णसर्ध्या

अवस्था न युज्यते इति योजना । अथवा हे शशिमुखि, तव मुखे भ्रूस्तावत्सपल्य-

नुमीयते । यतो यदुदितभयभञ्जनाय यूनां त्वदधर एव सीधुः । पानसाधर्म्यात् स एव

सुधामधुरत्वाद्विषनाशनाय सिद्धमन्त्रः । अत्र सुधाया आस्वाद्यत्वेन ओषधित्वे वक्तव्ये

यन्मन्त्रोपादानं तत्सर्वयुवसाधारण्येन शृङ्गाराभासव्यावृत्त्यर्थम् । अतिसौन्दर्यात् । अन्ये

स्मरन्तु नाम उपभोगयोग्यत्वं हरेरेवेति । पुष्पिताम्रा वृत्तम् । अत्र कल्पितोपमा-

रूपकालंकारौ । तमेव क्रमशब्दार्थ विशिनष्टि आसर्गपरिसमाप्तेः ॥ ४ ॥ व्यथय-

तीति । हे तन्वि कृशाङ्गि, तवैतद्वृथा मौनं मां व्यथयति । त्वया तनुत्वाद्वक्तुमश-

क्यत्वेन मौनं न ध्रियते किंतु निरपराधे सापराधोऽयमिति वृथाशब्दद्योत्यम् ।

एव व्यथयति । हे तरुणि, मधुरालापैः पञ्चमं पञ्चमस्वरं प्रपञ्चय विस्तारय । पञ्चमो-

यथोचितदण्डाचरणं विधेयमिति भावः । 'चण्डी कात्यायनीदेत्र्यां हिंस्रकोपनयोषितो:'

इति विश्वः ॥ ३ ॥ ननु कोपो मम नास्त्येवेति आह— शशिमुखीत्यादि ।

हे शशिमुखि चन्द्रानने, तव भङ्गुरभ्रूः भाति । कीदृशी । युवजनानां तरुणजनानां

मोहनाय करालो भीषणः कालसर्पः । भुजंगो दवा मोहयति, इयं दृष्ट्वा मोहयतीत्येतस्या

करालत्वम् । अतस्तदुदित विषभञ्जनाय तत्सकाशादुदितमुद्गतं यद्विषं तस्य

नाशाय यूनां तरुणजनानां त्वदधरसीधुसुधैव त्वदीयाधर एव सीधुर्मदिराविशेषः स

एवामृतं तदेव सिद्धः साधितो मन्त्रः । अन्यो जपादिना विषं नाशयति अयं त्वासादित

एवेति एतस्यान्यमन्त्रापेक्षया सिद्धत्वम् । तथा चायमपि तव भ्रूकालसर्पविषमूच्छितस्तस्या-

प्यौषधत्वेन तवाधरः सुधायाः समान इति भावः । 'करालो भीषणेऽन्यवत्' इति विश्वः ॥४॥

व्यथयतीत्यादि । हे तन्वि, तव वृथा मौनमकारणवाग्बन्धनं मां व्यथयति

पीडयति । किंच । हे तरुणि, मधुरालपितैस्तैः पञ्चमं स्वरविशेषं प्रपञ्चय विस्तारय ।

किंच । दृष्टिभिरवलोकनैस्तापं संतापं विनोदय विशेषतोऽपसारय । हे सुमुखि,
 

 
भञ्जनाय
 

 
१ 'कालसर्प : ' इति पाठः । २ 'विषभञ्जनाय' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri