This page has been fully proofread once and needs a second look.

१३४
 
गीतगोविन्दुकाव्यम्
 
[ सर्गः १०
 
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं

प्रण[^१]यिनि परीरम्भारम्भे विधेहि विधेयताम् ॥ २ ॥

 
मुग्धे विधेहि मयि निर्दयदन्तदंश-
!!

दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।

चण्डि त्वमेव मुदर्मु[^२]द्ह पञ्चवाबाण-

चण्डौड[^३]लकाण्डदलनादसवः प्रया[^४]न्ति ॥ ३ ॥
 

 

 
"

 
इत्यर्थः । अत्र ममेति षष्ठ्यन्तमर्थवशात्सप्तम्या विपरिणम्यते । कथं शङ्का परिहरणीये
ति
वाक्यार्थद्वारेण हेतुमाह । सततग्रहणेन जीवितावधि त्वदृतेऽन्या काचन मम हृद-

यमाश्रित्य न वर्तत इति बोधयति । हे प्रणयिनि, मम खास्वान्ते घनस्तनजघनया वया
.
त्वया
सततमाक्रान्ते अत एवान्यानवकाशवति वितनोरनङ्गादन्यो धन्यस्तादृशसौभाग्ययोग्यः

कोऽप्यन्यः स्त्रीलक्षणो जनोऽन्तरं पश्चान्न विशति । साङ्गस्य प्रवेशाभाव इति तां

शङ्कां मा कृथा इत्यर्थः । शङ्कां मुक्खात्वा किं कुर्वित्याह -- <pratika>परीरम्भारम्भ</pratika> आलि-
-ज

ङ्ग
नारम्भे विधेयतां दासतां विधेहि । अथवैवं योजना । प्रणयिनीति का का क्षिगोलक-

न्यायेनोभयत्र संबध्यते । त्वयि योगो न युक्त इति ( ? ) प्रणयिनि, मयि स्नेहपरे

परीरम्भारम्भे विधेयतां किंकरतां विधेहि । त्वयानुमतोऽहमालिङ्गनार्थं प्रयतेय तथा

कुरु । हरिणी वृत्तम् । अत्र काव्यलिङ्गमलंकारः । प्रणयिनीति पदौचित्यं वर्णानुप्रासश्च ।

प्रौढा नायिका । प्रगल्भो नायकः । विप्रलम्भे सङ्गसिद्धिः ॥ २ ॥ इदानीं सापराधित्व-

मभ्युपगम्याप्याह - - <pratika>मुग्धे इति ।</pratika> हे मुग्धे आत्महितानभिज्ञे । अहमपराधी वि
ति
चेत्तर्हि मय्यपराधयोग्यं दण्डं निर्दयदन्तदंशदोर्वल्लिबन्धनिविडस्तनपीडनानि विधेहि ।

अथवा कोपैकशरणेति चेत्तर्हि संबोधनमुखेनानुरूपं विशेषणमाह -- हे चण्डि कोपने,

पञ्चबाणश्चाण्डालः तस्य काण्डैः शरैर्दलनान्ममासवः प्रयान्ति । किं पुनस्तस्य पौरुषेण

त्वमेव मुदमुद्ह । मया जितोऽयमिति जयपटहं वादय इत्यन्वयः । अथवा हे
प्रविशं

 
प्रविश
तीत्यत आह -- <pratika>परेति । </pratika>परानवकाशिनि इतरावकाशशून्ये । तत्र हेतुमाह -- <pratika>त्वयेति ।
</pratika>
घने निबिडे स्तनजघने यस्यास्तादृश्या त्वया सतताक्रान्ते व्याप्ते । तथा च सदा त्वया

पूरिते मदीये स्वान्तेऽन्यस्य प्रवेष्टुमेवावकाशो नास्ति । अनङ्ग एव परान्प्रविशति ।

तस्याङ्गाभावादित्यर्थः । तस्मात्परीरम्भारम्भे आलिङ्गनारम्भे विधेयतां वचनग्राहितां विधेहि

कुरु । परिरम्भमाचरेति मद्वचनं कुर्वित्यर्थः । '"रुक्तापशङ्कास्वातङ्कः'" इत्यमरः ॥ २ ॥

<pratika>
मुग्धे इत्यादि ।</pratika> मुग्धे सुन्दरि, निर्दयं दयारहितं दन्तदंशं दन्तक्षतम् । अथ च दोर्वल्लिबन्धं

भुजलताबन्धं निबिडं गाढं स्तनाभ्यां पीडनं च विधेहि कुरु । ततो हे चण्डि कोपने,

त्वमेव मुदमानन्दमञ्चय प्राप्नुहि । मम पुनः पञ्चबाणः कामः स एव निरपराध-

मादृग्जनहिंसकत्वेन चाण्डाल:लः । तस्य काण्डदलनान्नाराचप्रहरणादसवः प्राणाः प्रयान्तु

निर्गच्छन्तु । चाण्डालप्रहरणेन मरणे न समीचीना गतिः । अतस्त्वया साक्षादेव
 
२ ' मुदमञ्चय पञ्च'

 
[^१.] "स्तनभरपरी"
इति पाठः । [^२.] "मुदमञ्चय पञ्च" इति पाठः । [^ '.] "चाण्डाल'" इति
 
१ 'स्तनभरपरी' इति

पाठः ।
 
पाठ: ।
[^ '.] "प्रयान्तु'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri