This page has not been fully proofread.

१३४
 
गीतगोविन्दुकाव्यम्
 
[ सर्गः १०
 
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम् ॥ २ ॥
मुग्धे विधेहि मयि निर्दयदन्तदंश-
!! दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
चण्डि त्वमेव मुदर्मुद्रह पञ्चवाण-
चण्डौलकाण्डदलनादसवः प्रयन्ति ॥ ३ ॥
 

 

 
" इत्यर्थः । अत्र ममेति षष्ठ्यन्तमर्थवशात्सप्तम्या विपरिणम्यते । कथं शङ्का परिहरणीयेत
वाक्यार्थद्वारेण हेतुमाह । सततग्रहणेन जीवितावधि त्वदृतेऽन्या काचन मम हृद-
यमाश्रित्य न वर्तत इति बोधयति । हे प्रणयिनि, मम खान्ते घनस्तनजघनया वया
. सततमाक्रान्ते अत एवान्यानवकाशवति वितनोरनङ्गादन्यो धन्यस्तादृशसौभाग्ययोग्यः
कोऽप्यन्यः स्त्रीलक्षणो जनोऽन्तरं पश्चान्न विशति । साङ्गस्य प्रवेशाभाव इति तां
शङ्कां मा कृथा इत्यर्थः । शङ्कां मुक्खा किं कुर्वित्या – परीरम्भारम्भ आलि-
-जनारम्भे विधेयतां दासतां विधेहि । अथवैवं योजना । प्रणयिनीति का का क्षिगोलक-
न्यायेनोभयत्र संबध्यते । त्वयि योगो न युक्त इति ( ? ) प्रणयिनि, मयि स्नेहपरे
परीरम्भारम्भे विधेयतां किंकरतां विधेहि । वयानुमतोऽहमालिङ्गनार्थं प्रयतेय तथा
कुरु । हरिणी वृत्तम् । अत्र काव्यलिङ्गमलंकारः । प्रणयिनीति पदौचित्यं वर्णानुप्रासश्च ।
प्रौढा नायिका । प्रगल्भो नायकः । विप्रलम्भे सङ्गसिद्धिः ॥ २ ॥ इदानीं सापराधित्व-
मभ्युपगम्याप्याह- मुग्धे इति । हे मुग्धे आत्महितानभिज्ञे । अहमपराधी वि
चेत्तर्हि मय्यपराधयोग्यं दण्डं निर्दयदन्तदंशदोर्वल्लिबन्धनिविडस्तनपीडनानि विधेहि ।
अथवा कोपैकशरणेति चेत्तर्हि संबोधनमुखेनानुरूपं विशेषणमाह - हे चण्डि कोपने,
पञ्चबाणश्चाण्डालः तस्य काण्डैः शरैर्दलनान्ममासवः प्रयान्ति । किं पुनस्तस्य पौरुषेण
त्वमेव मुदमुद्रह । मया जितोऽयमिति जयपटहं वादय इत्यन्वयः । अथवा हे
प्रविशंतीत्यत आह—परेति । परानवकाशिनि इतरावकाशशून्ये । तत्र हेतुमाह—त्वयेति ।
घने निबिडे स्तनजघने यस्यास्तादृश्या त्वया सतताक्रान्ते व्याप्ते । तथा च सदा त्वया
पूरिते मदीये स्वान्तेऽन्यस्य प्रवेष्टुमेवावकाशो नास्ति । अनङ्ग एव परान्प्रविशति ।
तस्याङ्गाभावादित्यर्थः । तस्मात्परीरम्भारम्भे आलिङ्गनारम्भे विधेयतां वचनग्राहितां विधेहि
कुरु । परिरम्भमाचरेत मद्वचनं कुर्वित्यर्थः । 'रुक्तापशङ्कास्वातङ्कः' इत्यमरः ॥ २ ॥
मुग्धे इत्यादि । मुग्धे सुन्दरि, निर्दयं दयारहितं दन्तदंशं दन्तक्षतम् । अथ च दोर्वल्लिबन्धं
भुजलताबन्धं निबिडं गाढं स्तनाभ्यां पीडनं च विधेहि कुरु । ततो हे चण्डि कोपने,
त्वमेव मुदमानन्दमञ्चय प्राप्नुहि । मम पुनः पञ्चबाणः कामः स एव निरपराध-
मादृग्जनहिंसकत्वेन चाण्डाल: । तस्य काण्डदलनान्नाराचप्रहरणादसवः प्राणाः प्रयान्तु
निर्गच्छन्तु । चाण्डालप्रहरणेन मरणे न समीचीना गतिः । अतस्त्वया साक्षादेव
 
२ ' मुदमञ्चय पञ्च' इति पाठः । ३ 'चाण्डाल' इति
 
१ 'स्तनभरपरी' इति पाठः ।
 
पाठ: । ४ 'प्रयान्तु' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri