This page has been fully proofread once and needs a second look.

सर्गः १० ] रसिकप्रिया-
रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
इति चटुलचाटुपटुचारु मुरवैरिणो

राधिकामधि वचनजातम् ।
जयं

जय[^१]
ति जयदेवकविभारती भूषितं

मानिनीजनजनितशातम् ॥ प्रिये० ॥ ८ ॥

 
परिहर कृताङ्के शङ्कां त्वया सततं घन-

स्तनजघनयाकाक्रान्ते वान्ते परानवकाशिनी ।
 
१३३
 

 
॥ ७ ॥ अपि च । <pratika>इतीति ।</pratika> इत्यमुना प्रकारेण चटुलचाटुपटुचारु मुरवैरिणो

राधिकामधिकृत्य वचनजातम् । जयदेवक विभारतीभूषितम् । पुनः किंभूतम् ।

'मानिनीजनजनितशातम् मानिनीजनस्य जनितमुत्पादितं शातं सुखं येन ॥ '"ललि-

तापि पद्यरचना न धातुयोगादृते विभाति शुभा । इति कुम्भकर्णनृपतिर्गा-

यति तां गीतगोविन्दे ॥'" तथा च सङ्गीतराजे -- तालो वर्णयती रागाः क्रमादष्टादश

स्मृताः । मध्यमादिश्च ललितो वसन्तो गुर्जरी तथा ॥ धनाश्री भैरवो गौण्डकृतिर्दे-

शाङ्किकापि च । मालवश्रीश्चं केदारमालवीया दिगौण्डकौ ॥ स्थानगौण्डश्च श्रीरागो
"महा

मह्ला
रश्च वराटिका । मेघरागश्च भद्रावद्धोरणीनियता इमे ॥ यावद्रागं पदानि स्युः

प्रान्ते पाटस्वराणि तु । क्वचित्क्वचिद्गतालापभूषितानि यथारुचि ॥ मिथः प्रियो-

क्तिसंभारविप्रलम्भरसानि च । यत्र स्यात्स प्रबन्धोऽयं रागराजिविराजितः ॥'
"
इति चतुरचतुर्भुज राग राजिचन्द्रोद्द्योतनामा एकोनविंशः प्रबन्धः ॥ ८ ॥ १९ ॥ इदा-

नीमात्मानं गतदोषं ज्ञापयन्संभोगार्थं प्रोत्साहयन्नाह - - <pratika>परिहरेति ।</pratika> हे कृतातङ्के

कृतान्यवनितासङ्गशङ्के मयि शङ्कां त्यज । अथवा मयि कृतातङ्के त्वद्वियोगदर्शन-

संजातसंतापे शङ्कां त्यज । त्वां मयि संजातमनोविकल्पां दृष्ट्वा मयि संतापो जायत
 

 
इत्यनेन प्रकारेण मुरवैरिणः कृष्णस्य राधिकामधि लक्षीकृत्य वचनजातं वाक्यसमूहो जयति

सर्वोत्कर्षेण वर्तताम् । कीदृशम् । चटुलं मनोहरं चाटु प्रीतियुक्तं पटु चतुरं चारु सुकुमारम्।

पुनः कीदृशम् । पद्मावती जयदेवपत्नी तस्या रमणो वल्लभो यो जयदेवः तेन कविभारत्या

भारती संज्ञया कवित्ववृत्त्या भणितं वर्णितम् । जयदेवकवेर्भारत्या भणितमिति तु

व्याख्यानं मन्दम् । तथा पौनरुक्त्यापत्तेः । जयदेवक विभणितमित्यस्यैव सम्यक्त्वात् ।

पुनः कीदृशम् । अतिशातमतिशयितं सुखं यस्मात्तादृशम् । भारतीवृत्तिलक्षणं

शृङ्गारतिलके -'- "प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा । भारती सां भवेद्वृत्तिवींर्वीरहास्याद्भुतांताश्रया॥'
"
इति । रसार्णवसुधाकरेऽपि -- शृङ्गारादिषु सर्वेषु रसेष्विष्टा हि भारती ।" इति ।
'

"
चटुल:लः सुन्दरे चले'" इति धरणिः ।
"चटु चाटु प्रियं वाक्यम्'" इति हरिश्चन्द्रः ।
'

"
पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत्'" इति विश्वः । '"शर्मशातसुखानि च '" इत्यमरः ॥ ८ ॥

<pratika>
परिहरेति ।</pratika> हे कृतातर्फेङ्के विहितसंतापे, अन्यनायिकासङ्गसंशयं परिहर त्यज, यतो मम

स्वान्ते चित्तेऽभ्यन्तरे वितनोस्तनुशून्यात्कामादन्यो धन्यो जनो न विशति । कुतो न
 

 
[^
'.] "जयति पद्मावतीरमणजयदेव कवि भारतीभणितमतिशातम् ॥'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri