2022-10-18 04:14:20 by ambuda-bot
This page has not been fully proofread.
सर्गः १० ] रसिकप्रिया-
रसमञ्जर्याख्यटीकाद्वयोपेतम्
इति चटुलचाटुपटुचारु मुरवैरिणो
राधिकामधि वचनजातम् ।
जयंति जयदेवकविभारती भूषितं
मानिनीजनजनितशातम् ॥ प्रिये० ॥ ८ ॥
परिहर कृताङ्के शङ्कां त्वया सततं घन-
• स्तनजघनयाकान्ते वान्ते परानवकाशिनी ।
१३३
॥ ७ ॥ अपि च । इतीति । इत्यमुना प्रकारेण चटुलचाटुपटुचारु मुरवैरिणो
राधिकामधिकृत्य वचनजातम् । जयदेवक विभारतीभूषितम् । पुनः किंभूतम् ।
'मानिनीजनजनितशातम् मानिनीजनस्य जनितमुत्पादितं शातं सुखं येन ॥ 'ललि-
तापि पद्यरचना न धातुयोगादृते विभाति शुभा । इति कुम्भकर्णनृपतिर्गा-
यति तां गीतगोविन्दे ॥' तथा च सङ्गीतराजे - तालो वर्णयती रागाः क्रमादष्टादश
स्मृताः । मध्यमादिश्च ललितो वसन्तो गुर्जरी तथा ॥ धनाश्री भैरवो गौण्डकृतिर्दे-
शाङ्किकापि च । मालवश्रीश्चं केदारमालवीया दिगौण्डकौ ॥ स्थानगौण्डश्च श्रीरागो
"महारश्च वसटिका । मेघरागश्च भद्रावद्धोरणीनियता इमे ॥ यावद्रागं पदानि स्युः
प्रान्ते पाटस्वराणि तु । क्वचित्क्वचिद्गतालापभूषितानि यथारुचि ॥ मिथः प्रियो-
क्तिसंभारविप्रलम्भरसानि च । यत्र स्यात्स प्रबन्धोऽयं रागराजिविराजितः ॥'
इति चतुरचतुर्भुज राग राजिचन्द्रोद्द्योतनामा एकोनविंशः प्रबन्धः ॥ ८ ॥ १९ ॥ इदा-
नीमात्मानं गतदोषं ज्ञापयन्संभोगार्थ प्रोत्साहयन्नाह - परिहरेति । हे कृतातङ्के
कृतान्यवनितासङ्गशङ्के मयि शङ्कां त्यज । अथवा मयि कृतातङ्के त्वद्वियोगदर्शन-
संजातसंतापे शङ्कां त्यज । त्वां मयि संजातमनोविकल्पां दृष्ट्वा मयि संतापो जायत
इत्यनेन प्रकारेण मुरवैरिणः कृष्णस्य राधिकामधि लक्षीकृत्य वचनजातं वाक्यसमूहो जयति
सर्वोत्कर्षेण वर्तताम् । कीदृशम् । चटुलं मनोहरं चाटु प्रीतियुक्तं पटु चतुरं चारु सुकुमारम्।
पुनः कीदृशम् । पद्मावती जयदेवपत्नी तस्या रमणो वल्लभो यो जयदेवः तेन कविभारत्या
भारती संज्ञया कवित्ववृत्त्या भणितं वर्णितम् । जयदेवकवेर्भारत्या भणितमिति तु
व्याख्यानं मन्दम् । तथा पौनरुक्त्यापत्तेः । जयदेवक विभणितमित्यस्यैव सम्यक्त्वात् ।
पुनः कीदृशम् । अतिशातमतिशयितं सुखं यस्मात्तादृशम् । भारतीवृत्तिलक्षणं
शृङ्गारतिलके-'प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा । भारती सां भवेद्वृत्तिवींरहास्याद्भुतांश्रया॥'
इति । रसार्णवसुधाकरेऽपि - शृङ्गारादिषु सर्वेषु रसेष्विष्टा हि भारती ।" इति ।
'चटुल: सुन्दरे चले' इति धरणिः ।
चाटु प्रियं वाक्यम्' इति हरिश्चन्द्रः ।
'पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत्' इति विश्वः । 'शर्मशातसुखानि च ' इत्यमरः ॥ ८ ॥
परिहरेति । हे कृतातर्फे विहितसंतापे, अन्यनायिकासङ्गसंशयं परिहर त्यज, यतो मम
स्वान्ते चित्तेऽभ्यन्तरे वितनोस्तनुशून्यात्कामादन्यो धन्यो जनो न विशति । कुतो न
१ 'जयति पद्मावतीरमणजयदेव कवि भारतीभणितमतिशातम् ॥' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri