This page has been fully proofread once and needs a second look.

१३२
 
गीतगोविन्दकाव्यम्
 
स्मरगरलखण्डनं मम शिरसि मण्डनं
 

<error>
धेहि</error><fix>धेहि[^१]</fix> पदपल्लवमुदारम् ।
 

ज्वलति मयि दारुणो मदनकदनारु[^२]णो

हरतु तदुपाहितविकारम् । प्रिये० ॥ ७ ॥
 
[ सर्गः १०
 

 
लसत्कान्तिमांश्चेति ईदृशोऽलक्तकरागो यत्र । एतावता अलक्तकरञ्जनसमकालमेव

शृ
ङ्गारोत्पत्तिर्भवत्येव यूनाम् । किंभूतं चरणद्वयम् स्थलकमलगञ्जनं पद्म-

रागस्पर्धि । पुनः किंभूतम् । मम हृदयरञ्जनं मम चित्तानुकारि । पुनः

किंभूतम् । जनित उत्पादितो रतिरङ्गस्य रमणप्रमोदस्य परभागो यत्र । कामो-

द्रेककारीत्यर्थः ॥ ६ ॥ अपि च । <pratika>स्मरेति । </pratika>हे राधे मम शिरसि उदारं

चरणलक्षणैर्महत्पदपल्लवं पदं पल्लव इव लौहित्यकौमल्यशैत्यादिना मण्डनमिव घेधेहि

आरोपय । किंभूतं पदपल्लवम् । स्मरगरलखण्डनं कामविषतापशमनम् । मयि विषये

दारुणो मदनस्य यत्कदनं तदेवारुण इव सूर्य इव ज्वलति दीप्यते । स चरणपल्लवः मम

शिरसि निहितः सन् । तेन मदनकदनारुणजनिततापेन उपाहितविकारमारोपितवि-

कृतिं संतापं हरतु । अत्रान्तरेत्यादौ प्रौढा मानवती नायिका । अनुकूलो नायकः ।
 

 

 
मम हृदयानुरागजनकम् । तथा चेदं मम हृदयं रञ्जयति । ममाप्यलक्तकेनैत द्रञ्जनमुचित -

मेवेति भावः । अत एव जनितो रतिरङ्गे सुरतकौशले परभागः परस्परशोभा येन तादृशम् ।

मयालक्तकेन चेदं रज्यते । तदेतत्क्रौञ्चवधादौ मम हृदयलग्नं सत्परमशोभां

दास्यतीति भावः । स्फुरतु मणिमञ्जरीत्यनेन भणनेन च विपरीतरतमन्त्राभिमतम् ।
'

"
परस्परं तु या कान्तिः परभागः स कथ्यते'" इति धरणिः । '"रङ्गः कौशलरागयोः'
"
इति च ॥ ६ ॥ <pratika>स्मरेति ।</pratika> हे प्रिये, उदारं सुन्दरं पदपल्लवं चरणकिसलयं मम

शिरसि धेहि स्थापय । कीदृशम् । मण्डनं मम मस्तकस्यालंकरणम् । पुनः कीदृशम् ।

स्परस्य यद्गरलं विषं तस्य खण्डनं नाशनम् । विरहिणं मूर्च्छादिप्रदानेन मलयानिले

स्मरगरलत्वरूपणात्स्मरस्य सर्पत्वमाक्षिप्यते । चरणपल्लवं विधेहीत्यनेन नायिकाया

गारुडिकत्वं चेत्याक्षेपरूपकमिदम् । अपरमपि सर्पादिविषं गारुडिकचरणाघातेनाभि-

मन्त्रितपल्लवारोपणेन च शाम्यतीति ध्वनिः । किं च मयि दारुणो दुःसहो

मदनकदनारुणो मदनः कामस्तज्जनितं यत्कदनं तापः स एवारुणः सूर्यो ज्वलति ।

अतस्तेनोपाहितं जनितं विकारं श्रान्त्यादिरूपं हरतु दूरीकरोतु । अन्यः

सूर्यसंतापः शिरसि पल्लवादिस्थापनेन शाम्यतीति ध्वनिः । '"अरुणोऽस्फुटरांरागे

स्यात्सूर्ये सूर्यस्य सारथी । '" इति विश्वः । '"कदनं कलुषे तापे'" इति च ॥ ७ ॥
 

 
[^
'.] "देहि'" इति पाठः । [^ 'कइ.] "कदनानलो'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri