2022-10-18 04:14:19 by ambuda-bot
This page has not been fully proofread.
१३२
गीतगोविन्दकाव्यम्
स्मरगरलखण्डनं मम शिरसि मण्डनं
धेहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो
हरतु तदुपाहितविकारम् । प्रिये० ॥ ७ ॥
[ सर्गः १०
लसत्कान्तिमांश्चेति ईदृशोऽलक्तकरागो यत्र । एतावता अलक्तकरञ्जनसमकालमेव
शङ्गारोत्पत्तिर्भवत्येव यूनाम् । किंभूतं चरणद्वयम् स्थलकमलगञ्जनं पद्म-
रागस्पर्धि । पुनः किंभूतम् । मम हृदयरञ्जनं मम चित्तानुकारि । पुनः
किंभूतम् । जनित उत्पादितो रतिरङ्गस्य रमणप्रमोदस्य परभागो यत्र । कामो-
द्रेककारीत्यर्थः ॥ ६ ॥ अपि च । स्मरेति । हे राधे मम शिरसि उदारं
चरणलक्षणैर्महत्पदपल्लवं पदं पल्लव इव लौहित्यकौमल्यशैत्यादिना मण्डनमिव घेहि
आरोपय । किंभूतं पदपल्लवम् । स्मरगरलखण्डनं कामविषतापशमनम् । मयि विषये
दारुणो मदनस्य यत्कदनं तदेवारुण इव सूर्य इव ज्वलति दीप्यते । स चरणपल्लवः मम
शिरसि निहितः सन् । तेन मदनकदनारुणजनिततापेन उपाहितविकारमारोपितवि-
कृतिं संतापं हरतु । अत्रान्तरेत्यादौ प्रौढा मानवती नायिका । अनुकूलो नायकः ।
।
मम हृदयानुरागजनकम् । तथा चेदं मम हृदयं रञ्जयति । ममाप्यलक्तकेनैत द्रञ्जनमुचित -
मेवेति भावः । अत एव जनितो रतिरङ्गे सुरतकौशले परभागः परस्परशोभा येन तादृशम् ।
मयालक्तकेन चेदं रज्यते । तदेतत्क्रौञ्चवधादौ मम हृदयलग्नं सत्परमशोभां
दास्यतीति भावः । स्फुरतु मणिमञ्जरीत्यनेन भणनेन च विपरीतरतमन्त्राभिमतम् ।
'परस्परं तु या कान्तिः परभागः स कथ्यते' इति धरणिः । 'रङ्गः कौशलरागयोः'
इति च ॥ ६ ॥ स्मरेति । हे प्रिये, उदारं सुन्दरं पदपलवं चरणकिसलयं मम
शिरसि धेहि स्थापय । कीदृशम् । मण्डनं मम मस्तकस्यालंकरणम् । पुनः कीदृशम् ।
स्परस्य यद्गरलं विषं तस्य खण्डनं नाशनम् । विरहिणं मूर्च्छादिप्रदानेन मलयानिले
स्मरगरलत्वरूपणात्स्मरस्य सर्पत्वमाक्षिप्यते । चरणपल्लवं विधेहीत्यनेन नायिकाया
गारुडिकत्वं चेत्याक्षेपरूपकमिदम् । अपरमपि सर्पादिविषं गारुडिकचरणाघातेनाभि-
मन्त्रितपल्लवारोपणेन च शाम्यतीति ध्वनिः । किं च मयि दारुणो दुःसहो
मदनकदनारुणो मदनः कामस्तज्जनितं यत्कदनं तापः स एवारुणः सूर्यो ज्वलति ।
अतस्तेनोपाहितं जनितं विकारं श्रान्त्यादिरूपं हरतु दूरीकरोतु । अन्यः
सूर्यसंतापः शिरसि पल्लवादिस्थापनेन शाम्यतीति ध्वनिः । 'अरुणोऽस्फुटरांगे
स्यात्सूर्ये सूर्यस्य सारथी । ' इति विश्वः । 'कदनं कलुषे तापे' इति च ॥ ७ ॥
१ 'देहि' इति पाठः । २ 'कइनानलो' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri