This page has been fully proofread once and needs a second look.

सर्गः १० ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी

रञ्जयतु तव हृदयदेशम् ।

रसतु रसनापि तव घनजघनमण्डले

घोषयतु मन्मथनिदेशम् । प्रिये० ॥ ५ ॥

 
स्थलकमलगञ्जनं मम हृदयरञ्जनं

जनितरतिरङ्ग परभागम् ।
 

भण मसृणवाणि करवाणि चरणद्वयं
सरसलं

सरसल[^१]
सदलक्तकरागम् । प्रिये० ॥ ६ ॥
 

 
#
 
१३१
 

 
कुसु॒मशरभावेन यदि नीलनलिनाभमपि लोचनं कोकनदरूपं धारयति तर्हि एतदिदं

तवानुरूपम् ॥ ४ ॥ अपि च <pratika>स्फुरत्विति ।</pratika> हे तन्वि - तव कुचकुम्भयोरुपरि

मणिमञ्जरी मणिः मञ्जरीव स्फुरतु । स्फुरन्ती च किं करोत्वित्याह -- तव हृदयदेशं

रञ्जयतु । अपि च । रसनापि तव निबिडजघनमण्डले रसतु शब्दं करोतु ।

सा तथाविधा किं करोत्वित्याह- मन्मथनिदेशं सर्वा एव मानिन्यो मानं मुक्त्वा

कामवशगा भवन्त्विति कामाज्ञां घोषयन्तु ॥ ५ ॥ अपि च । स्थलकमलेति ।

हे मसृणवाणि स्निग्धवाणि, भणं आदिश । तव चरणद्वयं सरसलसदलक्तकरागं

करवाणि । सरसः सस्नेहो लसन्योऽसावलक्तकस्तस्य रागो यत्र । अथवा सह रसेन

शृङ्गारेण वर्तत इति सरसः । स चासौ तथा शृङ्गारोत्पत्तिद्वारेण स्पृहाजनक श्वाचासौ

 
सदृशम् । श्यामे लौहित्यापादनसमर्थायास्ते मम रञ्जनमनुरूपमेवेति । यश्च बाणेन ताड्यते

स रुधिरादिना रक्तो भवत्येवेति भावः । कुसुमशरबाणभावेनानेन नयनेन कृष्णं नन्दात्म
जं
मां रञ्जयसि प्रणयास्पदं करोषीति । इदमेतस्यास्तवानुरूपमेवेति प्रकृतार्थोंथो भवेत् ।
'

"
कोकनदं रक्तकैरवे रक्तपङ्कजे'" इति विश्वः ॥ ४ ॥ <pratika>स्फुरत्विति । </pratika>मणिमञ्जरी मणिपरम्परा

कुचकुम्भयोः स्तनकलशयोरुपरि स्फुरतु चञ्चला भवतु । तव हृदयदेशं वक्षःप्रदेशं

रञ्जयतु स्वरश्मिभिः शोभयतु । त्वन्नयननलिनं रक्तत्वं धत्ते त्वं च कृष्णं मां रञ्जयसि ।

अतो मणिमञ्जरी अर्पिता वक्षो यदि रञ्जयति तदानुरूपं भवतीति भावः
। अत्र
केलीरूपशुभकर्मारम्भे मञ्जरीयुक्तपूर्णकलशस्थापनमुचितमेवेति सूचनाय कुचयोः कलशत्वेन

रूपणं मणिपरम्परायाश्च मञ्जरीत्वेन रूपणम् । तव घनजघनमण्डले मांसलजघनभागे

रसनापि क्षुद्रघण्टिकापि रसतु शब्दायमाना भवतु, मन्मथनिदेशं
कामाशां
ज्ञां
घोषयतु वारं वारं कथयतु । कामाशया 'भो:"भोः केलिलिं कुरुत'" इति कामाशया सर्वे

विलासिनो रमन्तामिति वा मन्मथनिदेशं घोषयत्विति भावः ॥ ५ ॥ <pratika>स्थलेति ।</pratika> हे

मसृणवाणि स्निग्धवचने, भण आज्ञां देहि । तव चरणद्वयं सरसलसदलक्तकरागं सरसः

सान्द्रो लसन्नलक्तकरागो महारजनरागो यस्य तादृशं करवाणि कुर्याम् । कीदृशम् ।

स्थलकमलगञ्जनं स्थलोत्पन्नं यत्कमलं स्वकान्त्या तस्य तिरस्कारकम् । पुनः कीदृशम् ।

 
[^
'.] "सरसगलदल'" इति पाठः ।
 
अत्र
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri