This page has not been fully proofread.

सर्गः १० ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी
रञ्जयतु तव हृदयदेशम् ।
रसतु रसनापि तव घनजघनमण्डले
घोषयतु मन्मथनिदेशम् । प्रिये० ॥ ५ ॥
स्थलकमलगञ्जनं मम हृदयरञ्जनं
जनितरतिरङ्ग परभागम् ।
 
भण मसृणवाणि करवाणि चरणद्वयं
सरसलंसदलक्तकरागम् । प्रिये० ॥ ६ ॥
 

 
#
 
१३१
 
कुसु॒मशरभावेन यदि नीलनलिनाभमपि लोचनं कोकनदरूपं धारयति तर्हि एतदिदं
तवानुरूपम् ॥ ४ ॥ अपि च स्फुरत्विति । हे तन्वि - तव कुचकुम्भयोरुपरि
मणिमञ्जरी मणिः मञ्जरीव स्फुरतु । स्फुरन्ती च किं करोत्वित्याह – तव हृदयदेशं
रञ्जयतु । अपि च । रसनापि तव निबिडजघनमण्डले रसतु शब्दं करोतु ।
सा तथाविधा किं करोत्वित्याह- मन्मथनिदेशं सर्वा एव मानिन्यो मानं मुक्त्वा
कामवशगा भवन्त्विति कामाज्ञां घोषयन्तु ॥ ५ ॥ अपि च । स्थलकमलेति ।
हे मसृणवाणि स्निग्धवाणि, भणं आदिश । तव चरणद्वयं सरसलसदलक्तकरागं
करवाणि । सरसः सस्नेहो लसन्योऽसावलक्तकस्तस्य रागो यत्र । अथवा सह रसेन
शृङ्गारेण वर्तत इति सरसः । स चासौ तथा शृङ्गारोत्पत्तिद्वारेण स्पृहाजनक श्वासौ
सदृशम् । श्यामे लौहित्यापादनसमर्थायास्ते मम रञ्जनमनुरूपमेवेति । यश्च बाणेन ताड्यते
स रुधिरादिना रक्तो भवत्येवेति भावः । कुसुमशरबाणभावेनानेन नयनेन कृष्णं नन्दात्म
मां रञ्जयसि प्रणयास्पदं करोषीति । इदमेतस्यास्तवानुरूपमेवेति प्रकृतार्थों भवेत् ।
'कोकनदं रक्तकैरवे रक्तपङ्कजे' इति विश्वः ॥ ४ ॥ स्फुरत्विति । मणिमञ्जरी मणिपरम्परा
कुचकुम्भयोः स्तनकलशयोरुपरि स्फुरतु चञ्चला भवतु । तव हृदयदेशं वक्षःप्रदेशं
रञ्जयतु स्वरश्मिभिः शोभयतु । त्वन्नयननलिनं रक्तत्वं धत्ते त्वं च कृष्णं मां रञ्जयसि ।
अतो मणिमञ्जरी अर्पिता वक्षो यदि रञ्जयति तदानुरूपं भवतीति भावः
केलीरूपशुभकर्मारम्भे मञ्जरीयुक्तपूर्णकलशस्थापनमुचितमेवेति सूचनाय कुचयोः कलशत्वेन
रूपणं मणिपरम्परायाश्च मञ्जरीत्वेन रूपणम् । तव घनजघनमण्डले मांसलजघनभागे
रसनापि क्षुद्रघण्टिकापि रसतु शब्दायमाना भवतु, मन्मथनिदेशं
कामाशां
घोषयतु वारं वारं कथयतु । कामाशया 'भो: केलि कुरुत' इति कामाशया सर्वे
विलासिनो रमन्तामिति वा मन्मथनिदेशं घोषयत्विति भावः ॥ ५ ॥ स्थलेति । हे
मसृणवाणि स्निग्धवचने, भण आज्ञां देहि । तव चरणद्वयं सरसलसदलक्तकरागं सरसः
सान्द्रो लसन्नलक्तकरागो महारजनरागो यस्य तादृशं करवाणि कुर्याम् । कीदृशम् ।
स्थलकमलगअनं स्थलोत्पन्नं यत्कमलं स्वकान्त्या तस्य तिरस्कारकम् । पुनः कीदृशम् ।
१ 'सरसगलदल' इति पाठः ।
 
अत्र
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri