2022-11-07 06:31:03 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
त्वमसि मम भूषणं त्वमसि मम जीवनं
त्वमसि मम भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनुरोधिनी
तत्र मम हृदयमतियत्नम् । प्रिये० ॥ ३ ॥
नीलनलिनाभमपि तन्वि तव लोचनं
धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रञ्जयसि
कृष्णमिदमेतदनुरूपम् ॥ प्रिये० ॥ ४ ॥
बन्धनखण्डनादयो दण्डाः समुचिताः । अत्रैतद्व्याजेन नखक्षतालिङ्गनचुम्बनादीन्प्रार्थ-
यते ॥ २ ॥ अपि च <pratika>त्वमसीति ।</pratika>तव अन्या एव सन्ति ता एव प्रार्थ्यन्तामि-
त्याशङ्ख्याह -- मम त्वमेव भूषणमसि । त्वयालंकृतोऽहमन्यासु सौभाग्यवान् । अथ
तिष्ठतु बाह्यभूषणम् । मम जीवनमपि त्वमेवासि । अथ जीवनमपि तिष्ठतु ।
जीवनेsपि भवजलधौ रत्नं त्वमेव । भवजलधिग्रहणमन्यस्य परिग्रहस्य जडत्व-
द्योतनार्थम् । भवतीह विषये मयि सततमनुरोधिनी कृपापरा भवतु । अत्रैवार्थे
मम हृदयमतीव यत्नपरं विद्यते ॥ ३ ॥ अपिच <pratika>नीलेति ।</pratika> हे तन्वि, नीलनलिना-
भमपि कृष्णरूपमपि तव लोचनं कोकनदरूपं रक्तिमानं धारयति । अतो यदि कुसु-
मशरबाणचेष्टया कुसुमशरबाणाधीना भूत्वा यदि मामपि कृष्णं रञ्जयसि तदा
इदं रञ्जनमेतल्लोचनरञ्जनानुरूपं स्यात् । इदमाकूतम् । यथा मयि कोपेन त्वया
कृष्णं लोचनं रक्तं कृतं तथा मयि प्रसादपरा भूत्वा कुसुमशरभावेन कामबाणानां
कटाक्षादीनां चेष्टया मयि रक्तं कुरु । कोपं त्यक्त्वा प्रसादपरा भवेत्यर्थः । अथवा
इति विश्वः ॥ २ ॥ ननु या तव प्रिया तस्या मानं मोचय । मे मानत्यागे तव किं
प्रयोजनमित्यत आह -- <pratika>त्वमसीति ।</pratika> त्वं मम जीवनमसि । त्वयि विषण्णायां मम विषादो
भवति प्रसन्नायां प्रसाद इति त्वमेव जीवनमिति भावः । त्वं मम भूषणमलंकरणमसि ।
त्वां विना न परमा कान्तिरिति त्वमेव मम लोकोत्तरं भूषणमिति भावः । भवजलधौ
संसाररूपे रत्नाकरे त्वमेव मम रत्नमसि । यथा दरिद्रस्य रत्ने दृष्टे परमानन्दो भवत्येवं
मम त्वय्यपि दृष्टायामिति भावः । <pratika>भवत्विति ।</pratika> इह प्रणते मयि भवती सततं सदानुरोधिनी
भवतु । तत्रार्थे मम हृदयं यत्नवत् ॥ ३ ॥ <pratika>नीलेति ।</pratika> हे तन्वि कृशाङ्गि, नीलनलिनस्य
नीलोत्पलस्येवाभा दीप्तिर्यस्यैतादृशं तव लोचनं रोषारुणं यत्कोकनदरूपं रक्तोत्पलसौन्दर्यं
धारयति । यदि च कुसुमशरः कामस्तस्य बाणभावेन तद्बाणाभिप्रायेण वा इमं
कृष्णं च रञ्जयसि रक्तं करोषि । एतस्य चक्षुषोऽनुरूपं सदृशम् । शरा हि सततं
परशरीरभेदिनो रुधिराक्तत्वेनारक्ता भवन्तीति भावः । यद्वा कुसुमशरबाणभावेन
कुसुमशरस्य बाणरूपो यो भावोऽभिप्रायस्तेन । यद्वा कुसुमशरबाणभावेन तद्बाणस्वरूपेण
चक्षुषा भित्वा कृष्णं मां यदि रञ्जयसि । इदं रञ्जनमेतस्यास्तवैतस्य बाणस्य चानुरूपं