This page has been fully proofread once and needs a second look.

सर्गः १० ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १२९
 
1
सपदि मदनानलो दहति मम मानसं

देहि सुखकमलमधुपानम् ॥ ध्रुवम् ॥

 
सत्यमेवासि यदि सुदति मयि कोपिनी

देहि खरनखरशरघातम् ।
 

घटय भुजबन्धनं जनय रदखण्डनं

येन वा भवति सुखजातम् । प्रिये० ॥ २ ॥
 

 
सपत्नीसंभोगलक्षणकारणरहितम् । सपदि सांप्रतं भवतीति मानमपेक्ष्य मदनानलो

मम मानसं दहति । तत्तापोपशान्त्यै मुखकमलमधुपानं देहीति ध्रुवः । अथ पदानि ।

<pratika>व
दसीति ।</pratika> हे प्रिये, किंचिदपि प्रियाप्रियनिरपेक्षं स्वल्पमपि वदसि । तदा त

दन्तरुचिकौमुदी मम दरतिमिरं भयान्धकारं हरति । किंभूतं भयान्धकारम् । अतीव

घोरम्, अतीव भयानकहेतुत्वाद्भयानकम् । अत्र मयि स्थायी भयमेवोद्रिक्तः सन्

भयानकतामेष्यतीति । '"विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । आनीयमानः स्था-

यित्वे स्थायीभावो रसः स्मृतः'" इति । स च शृङ्गारविरोधी त्वया परिहरणीय

एव । तव वदनचन्द्रमा मम लोचनचकोरं स्फुरन्योऽधरे शीधुस्तस्मै रोचयतु

साभिलाषं करोतु । अधरशीधुचन्द्रिकार्थं चन्द्रमसः सान्निध्यान्मन्नेत्रचकोरस्य स्पृहा

जायते ॥ १ ॥ अपि च <pratika>सत्यमिति ।</pratika> हे सुदति शोभनदन्ते, सत्यमेव यदि

मयि कोपिन्यसि तर्हि सापराधे मयि खरनखरशरघातं देहि । भुजाभ्यां बन्धनं

घटय । रदैः खण्डनं जनय । अथवा किमुद्दिश्यते । येन वा अपराधयोग्येन दण्डेन

तव सुखजातं भवति स एव विधीयताम् । प्रभूणां हि सापराधेषु भृत्येषु ताडन-

 
किंचिदपि उदासीनवचनमपि वदसि तदा दन्तरुचिकौमुदी तव दन्तानां या रुचिः

सैव कौमुदी चन्द्रज्योत्स्ना सातिघोरमतिभीमं दरतिमिरं दरः साध्वसं स एव

तिमिरमन्धकारः तद्धरति दूरीकरोति । अत्र साध्वसे सति पुरः स्थितमपि वस्तु न प्रकाशत

इति साध्वसस्यान्धकारत्वेन निरूपणम् । दन्तरुचेश्च तन्नाशकत्वात्कौमुदीत्वेन निरूपणम् ।

अथ
च स्फुरन्कोपवशात्किंचिच्चलन्योऽधरः । तल्लक्षणं चोक्तम् । '"चन्द्रिकायां

कौमुदी'" इति विश्वः । 'दर:"दरः साध्वसगर्वयोः'" इति च । '"घोरं भीमे हरे घोरः'" इत्यपि ।
'

"
शीधु निभृतेऽमृते (?) ।'" शीधुशब्दः पुंस्यपि । पुन्नपुंसक शेषेऽमरसिंह: – 'हः -- "कुष्टं मुण्डं शीधु

बुस्तम्'" इति । अत्राधरशीधवे इत्यत्र तादर्थ्यविवक्षायां चतुर्थी । न च लोचनचकोरमित्यत्र
'

"
रुच्यर्थानां प्रीयमाणः'" इति चतुर्थी कुतो नेति चेत् । अन्यकर्तृकोऽभिलाषो रुचिः ।

इह तु वदनचन्द्रमसोर्न प्रीतिजनकत्वं विवक्षितम् ॥ १ ॥ <pratika>सत्यमेवेति ।</pratika> हे सुदति

शोभनदशने, त्वं सत्यमेव यथार्थमेव यदि कोपवत्यसि तदा खरास्तीक्ष्णा ये नखास्त एव

बाणास्तैर्घातं प्रहारं देहि । तेनापि यदि न तुष्यसि तदा भुजाभ्यां बाहुभ्यां बन्धनं घटय ।

तेनाप्यसंतोषे रदखण्डनं रदैर्दशनैः खण्डनमधरे क्षतं जनय । येन वा सुखजातं

सुखसमूहो भवति तदेव कुरु। तथा च मय्यपराधानुकूलं दण्डं विधाय कोपं मुञ्चेति भावः ॥

सुदति शोभना दन्ता अस्या इति वाक्येति दन्तस्येति दत्रादेशः । '"जातं जात्योच्चजन्म सु
 
अथ
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
"