2022-10-18 04:14:19 by ambuda-bot
This page has not been fully proofread.
सर्गः १० ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १२९
1 सपदि मदनानलो दहति मम मानसं
देहि सुखकमलमधुपानम् ॥ ध्रुवम् ॥
सत्यमेवासि यदि सुदति मयि कोपिनी
देहि खरनखरशरघातम् ।
घटय भुजबन्धनं जनय रदखण्डनं
येन वा भवति सुखजातम् । प्रिये० ॥ २ ॥
सपत्नीसंभोगलक्षणकारणरहितम् । सपदि सांप्रतं भवतीति मानमपेक्ष्य मदनानलो
मम मानसं दहति । तत्तापोपशान्त्यै मुखकमलमधुपानं देहीति ध्रुवः । अथ पदानि ।
चदसीति । हे प्रिये, किंचिदपि प्रियाप्रियनिरपेक्षं स्वल्पमपि वदसि । तदा तक
दन्तरुचिकौमुदी मम दरतिमिरं भयान्धकारं हरति । किंभूतं भयान्धकारम् । अतीव
घोरम्, अतीव भयानकहेतुत्वाद्भयानकम् । अत्र मयि स्थायी भयमेवोद्रितः सन्
भयानकतामेष्यतीति । 'विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । आनीयमानः स्था-
यित्वे स्थायीभावो रसः स्मृतः' इति । स च शृङ्गारविरोधी त्वया परिहरणीय
एव । तव वदनचन्द्रमा मम लोचनचकोरं स्फुरन्योऽधरे शीधुस्तस्मै रोचयतु
साभिलाषं करोतु । अधरशीधुचन्द्रिका चन्द्रमसः सान्निध्यान्मन्नेत्रचकोरस्य स्पृहा
जायते ॥ १ ॥ अपि च सत्यमिति । हे सुदति शोभनदन्ते, सत्यमेव यदि
मयि कोपिन्य तर्हि सापराधे मयि खरनखरशरघातं देहि । भुजाभ्यां बन्धनं
घटय । रदैः खण्डनं जनय । अथवा किमुद्दिश्यते । येन वा अपराधयोग्येन दण्डेन
तव सुखजातं भवति स एव विधीयताम् । प्रभूणां हि सापराधेषु भृत्येषु ताडन-
किंचिदपि उदासीनवचनमपि वदसि तदा दन्तरुचिकौमुदी तव दन्तानां या रुचिः
सैव कौमुदी चन्द्रज्योत्स्ना सातिघोरमतिभीमं दरतिमिरं दरः साध्वसं स एव
तिमिरमन्धकारः तद्धरति दूरीकरोति । अत्र साध्वसे सति पुरः स्थितमपि वस्तु न प्रकाशत
इति साध्वसस्यान्धकारत्वेन निरूपणम् । दन्तरुचेश्च तन्नाशकत्वात्कौमुदीत्वेन निरूपणम् ।
च स्फुरन्कोपवशात्किंचिच्चलन्योऽधरः । तल्लक्षणं चोक्तम् । 'चन्द्रिकायां
कौमुदी' इति विश्वः । 'दर: साध्वसगर्वयोः' इति च । 'घोरं भीमे हरे घोरः' इत्यपि ।
'शीधु निभृतेऽमृते (?) ।' शीधुशब्दः पुंस्यपि । पुन्नपुंसक शेषेऽमरसिंह: – 'कुष्टं मुण्डं शीधु
बुस्तम्' इति । अत्राधरशीधवे इत्यत्र तादर्थ्यविवक्षायां चतुर्थी । न च लोचनचकोरमित्यत्र
'रुच्यर्थानां प्रीयमाणः' इति चतुर्थी कुतो नेति चेत् । अन्यकर्तृकोऽभिलाषो रुचिः ।
इह तु वदनचन्द्रमसोर्न प्रीतिजनकत्वं विवक्षितम् ॥ १ ॥ सत्यमेवेति । हे सुदति
शोभनदशने, त्वं सत्यमेव यथार्थमेव यदि कोपवत्यसि तदा खरास्तीक्ष्णा ये नखास्त एव
बाणास्तैर्घातं प्रहारं देहि । तेनापि यदि न तुष्यसि तदा भुजाभ्यां बाहुभ्यां बन्धनं घटय ।
तेनाप्यसंतोषे रदखण्डनं रदैर्दशनैः खण्डनमधरे क्षतं जनय । येन वा सुखजातं
सुखसमूहो भवति तदेव कुरु। तथा च मय्यपराधानुकूलं दण्डं विधाय कोपं मुञ्चेति भावः ॥
सुदति शोभना दन्ता अस्या इति वाक्येति दन्तस्येति दत्रादेशः । 'जातं जात्योच्चजन्म सु
अथ
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri