This page has been fully proofread once and needs a second look.

<bold>दशमः सर्गः १०</bold>
 
चतुरचतुर्भुजः ।
 
अत्रान्तरे म[^१]सृणरोषवश[^२]मपार-
निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्दगद्गदपदं हरिरित्युवाच ॥ १ ॥
 
<bold>देशवराडीरागाष्टतालाभ्यां गीयते । प्र० ॥ १९ ॥</bold>
 
वदसि यदि किंचिदपि दन्तरुचिकौमुदी
हरति दरतिमिरमतिघोरम् ।
स्फुरदधरशीधवे तव वदनचन्द्रमा
रोच[^३]यतु लोचनचकोरम् ॥ १ ॥
 
प्रिये चारुशीले मुञ्च मयि मानमनिदानम् ।
 
इदानीं सायं कृतसखीकृत्यां स्मरशरजर्जरितकोपां स्वयमनुनयति -- <pratika>अत्रान्तर
इति ।</pratika>अत्रान्तरेऽस्मिन्नवसरे दिनान्ते हरिः सव्रीडं यथा स्यात्तथा सुमुखीं राधा-
मुपेत्य सानन्दगद्गदपदं सहर्षविशकलिताक्षरं यथा स्यात्तथा इति वक्ष्यमाणमुवाच ।
पुनः कथं यथा स्यात्तथा । किंभूताम् । मसृणरोषवशां स्निग्धरोषरागाम् । कोमलसखी-
वचनैः किंचिन्नमितरोषाम् । पुनः किंभूताम् । अपारनिःश्वासनिःसहमुखीं विरहसह-
नासमर्थाननाम् । वसन्ततिलका वृत्तम् ॥ १ ॥ तदेव वक्ष्यमाणमाह -- <pratika>वदसीति ।</pratika>
तत्रानुरोधेन क्रमपरिपार्टी परित्यज्य पूर्वं ध्रुवपदं व्याक्रियते -- <pratika>प्रिये हीति ।</pratika> हे प्रिये,
शोभनशीले, मयि विषये यो मानः तं मुञ्च परित्यज । किंभूतम् । अनिदानम्
 
<pratika>अत्रान्तर इति ।</pratika>अत्रान्तरेऽस्मिन्नवसरे हरिः राधां समुपेत्य समीपं गत्वा प्रदोषे
रात्रिमुखे इति वक्ष्यमाणमुवाच । कीदृशम् । अमसृणः कर्कशो यो रोषस्तस्मादसीमोऽधिको
निःश्वासस्तेन निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्ताम् । पुनः कीदृशीम् । सव्रीडं
सलज्जं यथा स्यादेवमीक्षितं सख्या वदनं यया ताम् । कथं यथा स्यात् । सानन्दगद्गदपदम् ।
आनन्देन गद्गदपदं गलदक्षरवाक्सहितं यथा स्यात् ॥ १ ॥ तदेव गीतेन कथयति
-- <pratika>वदसीति ।</pratika>गीतस्यास्य देशवराडीरागस्तालश्चाष्टतालः । गीतार्थस्तु -- हे प्रिये राधे,
चारु मनोहरं शीलं यस्यास्तादृशे, त्वं मयि मद्विषयेऽनिदानमकारणकं मानं मुञ्च त्यज ।
सपदि त्वन्मानकाल एव मदनानलः कामाग्निर्मम मानसं दहति तापयति । अतो मुख-
कमलममलं तत्संबन्धि यन्मधु तत्पानं देहि । चारुशीलत्वमेवाह -- <pratika>वदसीति ।</pratika> त्वं यदि
 
[^१.] "अत्रान्तरेऽमसृण" इति पाठः । [^२.] "वशादसीम इति" "वशामसीम" इति पाठौ ।
[^३.] <error>रोचयति"</error><fix>"रोचयति"</fix> इति पाठः ।