This page has been fully proofread once and needs a second look.

१२८
 
गीतगोविन्दकाव्यम्
 
<bold>दशमः सर्गः १०
</bold>
 
चतुरचतुर्भुजः ।
 

 
अत्रान्तरे म
[ सर्ग: ^
 
अत्रान्तरे म॑
]सृणरोषवशोश[^२]मपार-
·

निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।

सव्रीडमीक्षितसखीवदनां दिनान्ते

सानन्द्गद्गदपदं हरिरित्युवाच ॥ १ ॥

 
<bold>
देशवराडीरागाष्टतालाभ्यां गीयते । प्र० ॥ १९ ॥
</bold>
 
वदसि यदि किंचिदपि दन्तरुचिकौमुदी

हरति दरतिमिरमतिघोरम् ।

स्फुरदधरशीधवे तव वदनचन्द्रमा

रोचैच[^३]यतु लोचनचकोरम् ॥ १ ॥

 
प्रिये चारुशीले मुञ्च मयि मानमनिदानम् ।
 

 
इदानीं सायं कृतसखीकृत्यां स्मरशरजर्जरितकोपां स्वयमनुनयति —- -- <pratika>अत्रान्तर

इति । </pratika>अत्रान्तरेऽस्मिन्नवसरे दिनान्ते हरिः सव्रीडं यथा स्यात्तथा सुमुखीं राधा-

मुपेत्य सानन्दगद्गदपदं सहर्षविशकलिताक्षरं यथा स्यात्तथा इति वक्ष्यमाणमुवाच ।

पुनः कथं यथा स्यात्तथा । किंभूताम् । मसृणरोषवशां स्निग्धरोषरागाम् । कोमलसखी-

वचनैः किंचिन्नमितरोषाम् । पुनः किंभूताम् । अपार निःश्वास निःसहमुखीं विरहसह-

नासमर्थाननाम् । वसन्ततिलका वृत्तम् ॥ १ ॥ तदेव वक्ष्यमाणमाह - - <pratika>वदसीति ।
</pratika>
तत्रानुरोधेन क्रमपरिपार्टी परित्यज्य पूर्वं ध्रुवपदं व्याक्रियते -- <pratika>प्रिये हीति ।</pratika> हे प्रिये,

शोभनशीले, मयि विषये यो मानः तं मुञ्च परित्यज । किंभूतम् । अनिदानम्
 

 
<pratika>
अत्रान्तर इति । </pratika>अत्रान्तरेऽस्मिन्नवसरे हरिः राधां समुपेत्य समीपं गत्वा प्रदोषे

रात्रिमुखे इति वक्ष्यमाणमुवाच । कीदृशम् । अमसृणः कर्कशो यो रोषस्तस्मादसी मोऽधिको

निःश्वासस्तेन निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्ताम् । पुनः कीदृशीम् । सव्रीडं

सलज्जं यथा स्यादेवमीक्षितं सख्या वदनं यया ताम् । कथं यथा स्यात् । सानन्दगद्गदपदम् ।

आनन्देन गद्गदपदं गलदक्षरवाक्सहितं यथा स्यात् ॥ १ ॥ तदेव गीतेन कथयति
 

-- <pratika>
वदसीति । </pratika>गीतस्यास्य देशवराडीरागस्तालश्चाष्टतालः । गीतार्थस्तु -- हे प्रिये राधे,

चारु मनोहरं शीलं यस्य । यास्तादृशे, त्वं मयि मद्विषयेऽनिदानमकारणकं मानं मुञ्च त्यज ।

सपदि त्वन्मानकाल एव मदनानल:लः कामाग्निर्मम मानसं दहति तापयति । अतो मुख-

कमलममलं तत्संबन्धि यन्मधु तत्पानं देहि । चारुशीलत्वमेवाह -- <pratika>वदसीति ।</pratika> त्वं यदि
 

 
[^
'.] "अत्रान्तरेऽमसृण'" इति पाठः । [^ '.] "वशादसीम इति' '" "वशामसीम'" इति पाठौ ।

[^
.] <error>रोचयति'"</error><fix>"रोचयति"</fix> इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri