2022-10-18 04:14:19 by ambuda-bot
This page has not been fully proofread.
१२८
गीतगोविन्दकाव्यम्
दशमः सर्गः १०
चतुरचतुर्भुजः ।
[ सर्ग: १०
अत्रान्तरे म॑सृणरोषवशोमपार-
· निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्द्गद्गदपदं हरिरित्युवाच ॥ १ ॥
देशवराडीरागाष्टतालाभ्यां गीयते । प्र० ॥ १९ ॥
वदसि यदि किंचिदपि दन्तरुचिकौमुदी
हरति दरतिमिरमतिघोरम् ।
स्फुरदधरशीधवे तव वदनचन्द्रमा
रोचैयतु लोचनचकोरम् ॥ १ ॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानम् ।
इदानीं सायं कृतसखीकृत्यां स्मरशरजर्जरितकोपां स्वयमनुनयति —- अत्रान्तर
इति । अत्रान्तरेऽस्मिन्नवसरे दिनान्ते हरिः सव्रीडं यथा स्यात्तथा सुमुखीं राधा-
मुपेत्य सानन्दगद्गदपदं सहर्षविशकलिताक्षरं यथा स्यात्तथा इति वक्ष्यमाणमुवाच ।
पुनः कथं यथा स्यात्तथा । किंभूताम् । मसृणरोषवशां स्निग्धरोषरागाम् । कोमलसखी-
वचनैः किंचिन्नमितरोषाम् । पुनः किंभूताम् । अपार निःश्वास निःसहमुखीं विरहसह-
नासमर्थाननाम् । वसन्ततिलका वृत्तम् ॥ १ ॥ तदेव वक्ष्यमाणमाह - वदसीति ।
तत्रानुरोधेन क्रमपरिपार्टी परित्यज्य पूर्वं ध्रुवपदं व्याक्रियते – प्रिये हीति । हे प्रिये,
शोभनशीले, मयि विषये यो मानः तं मुञ्च परित्यज । किंभूतम् । अनिदानम्
अत्रान्तर इति । अत्रान्तरेऽस्मिन्नवसरे हरिः राधां समुपेत्य समीपं गत्वा प्रदोषे
रात्रिमुखे इति वक्ष्यमाणमुवाच । कीदृशम् । अमसृणः कर्कशो यो रोषस्तस्मादसी मोऽधिको
निःश्वासस्तेन निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्ताम् । पुनः कीदृशीम् । सव्रीडं
सलज्जं यथा स्यादेवमीक्षितं सख्या वदनं यया ताम् । कथं यथा स्यात् । सानन्दगद्गदपदम् ।
आनन्देन गद्गदपदं गलदक्षरवावसहितं यथा स्यात् ॥ १ ॥ तदेव गीतेन कथयति
— वदसीति । गीतस्यास्य देशवराडीरागस्तालश्चाष्टतालः । गीतार्थस्तु - हे प्रिये राधे,
चारु मनोहरं शीलं यस्य । स्तादृशे, त्वं मयि मद्विषयेऽनिदानमकारणकं मानं मुञ्च त्यज ।
सपदि त्वन्मानकाल एव मदनानल: कामाग्निर्मम मानसं दहति तापयति । अतो मुख-
कमलममलं तत्संबन्धि यन्मधु तत्पानं देहि । चारुशीलत्वमेवाह — वदसीति । त्वं यदि
१ 'अत्रान्तरेऽमसृण' इति पाठः । २ 'वशादसीम इति' 'वशामसीम' इति पाठौ ।
३ रोचयति' इति पाठः ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri