2022-10-18 06:52:39 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
मृते पत्यौ तत्क्षणात्तु भस्मसादभवन्न या ।
तस्या वृथा व्रतं प्रीतिरित्येवं मम निश्चयः ॥
इति श्रुत्वा वचस्तस्याश्चिकीर्षन्ती परीक्षणम् ।
अवदं ते पतिः साध्वि मृतोऽकस्मादिति श्रुतम् ॥
तच्छ्रुत्वैव पपातोर्व्यां मृता तत्क्षणमेव हि ।
इदानीं त्वमिहायातः कविना सह संगतः ॥
अतः परं यत्कर्तव्यं तत्कुरुष्व मम प्रभो ।
इति श्रुत्वा वचस्तस्या राजा प्राहातिविस्मितः ॥
वृथेयं घातिता देवि त्वया पद्मावती सती ।
निवत्स्यति कथं गेहे जयदेवोऽनया विना ॥
अतस्त्यक्ष्याम्यहमपि त्वां यथेच्छं व्रजाधुना ।
घातने स्त्रीवधो मे स्यादवघ्ध्या हि स्त्रियो नृणाम् ॥
इति राजवचः श्रुत्वा जयदेवोऽब्रवीद्वचः ।
राजन्ननपराधेयं महिषी तव सुव्रता ॥
न त्यागमर्हत्येषा वै नैवं ब्रूहि ममाग्रतः ।
कौतुकेन मृषावाक्यं भवत्येव न संशयः ॥
वाङ्मात्रेण न तत्रास्ति पातकं कस्यचिन्नृप ।
किं च क्षणं जगन्नाथं स्मर त्वं सुमना भव ॥
भजेऽहमपि तं देवं कल्याणं स करिष्यति ।
इत्युक्त्वा जयदेवस्तु वाद्यमादाय सर्वशः ॥
प्रिये चार्विति यत्खोस्वोक्तं गीतं तत्परमानसः ।
जगौ ततः क्षणादेव पद्मावत्याः कलेवरम् ॥
संचचाल ततः सर्वे विस्मयोत्फुल्ललोचनाः ।
साधु साध्विति च प्रोचुः कंचित्कालं व्यतीत्य सा ॥
समुत्थाय जगौ पत्या सार्धं
तु पश्यतां नृणाम् ।
ततो राजा जहर्षाथ राज्ञी चापि पुनः सतीम् ॥
प्रणनाम मुहुर्भक्त्या क्षम्यतामिति भाषिणी ।
ततः प्रसन्नः स कविः स्नात्वा भुक्त्वा नृपाज्ञया।
॥
स्वगृहं प्रययौ हृष्टः पद्मावत्या महोत्सुकः ।
एवं भगवतो भक्तिर्मृतसंजीविनी नृणाम् ॥
अद्यापि वर्तते लोके निश्चयोऽपेक्षितः किल ।
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नाम चत्वारिंशः सर्गः ॥
अपरं शृणु वक्ष्यामि कवेः सुचरितं महत् ।
जयदेवसमः साधुर्न भूतो न भविष्यति ॥
सर्वभूतसुहृल्लोके सममात्मसमं पुनः ।
पश्चात्प्रारब्धभोगस्तु मनुते कर्मबन्धनम् ॥
२ गीत
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
तस्या वृथा व्रतं प्रीतिरित्येवं मम निश्चयः ॥
इति श्रुत्वा वचस्तस्याश्चिकीर्षन्ती परीक्षणम् ।
अवदं ते पतिः साध्वि मृतोऽकस्मादिति श्रुतम् ॥
तच्छ्रुत्वैव पपातोर्व्यां मृता तत्क्षणमेव हि ।
इदानीं त्वमिहायातः कविना सह संगतः ॥
अतः परं यत्कर्तव्यं तत्कुरुष्व मम प्रभो ।
इति श्रुत्वा वचस्तस्या राजा प्राहातिविस्मितः ॥
वृथेयं घातिता देवि त्वया पद्मावती सती ।
निवत्स्यति कथं गेहे जयदेवोऽनया विना ॥
अतस्त्यक्ष्याम्यहमपि त्वां यथेच्छं व्रजाधुना ।
घातने स्त्रीवधो मे स्यादव
इति राजवचः श्रुत्वा जयदेवोऽब्रवीद्वचः ।
राजन्ननपराधेयं महिषी तव सुव्रता ॥
न त्यागमर्हत्येषा वै नैवं ब्रूहि ममाग्रतः ।
कौतुकेन मृषावाक्यं भवत्येव न संशयः ॥
वाङ्मात्रेण न तत्रास्ति पातकं कस्यचिन्नृप ।
किं च क्षणं जगन्नाथं स्मर त्वं सुमना भव ॥
भजेऽहमपि तं देवं कल्याणं स करिष्यति ।
इत्युक्त्वा जयदेवस्तु वाद्यमादाय सर्वशः ॥
प्रिये चार्विति यत्
जगौ ततः क्षणादेव पद्मावत्याः कलेवरम् ॥
संचचाल ततः सर्वे विस्मयोत्फुल्ललोचनाः ।
साधु साध्विति च प्रोचुः कंचित्कालं व्यतीत्य सा ॥
समुत्थाय जगौ पत्या सार्धं
ततो राजा जहर्षाथ राज्ञी चापि पुनः सतीम् ॥
प्रणनाम मुहुर्भक्त्या क्षम्यतामिति भाषिणी ।
ततः प्रसन्नः स कविः स्नात्वा भुक्त्वा नृपाज्ञया